________________
धर्मसमुद्देशः ।
सहोमया गौर्या वर्तत इति सोमस्तं । उमाशब्दस्य बहुष्वर्थेषु वर्तमानस्वेऽप्यत्र गौर्येवोच्यते प्रस्तावाद्वौचित्याद्वा, यतः प्रस्तावाद्वौचित्यादुपमानदेशकालयुक्तिवशाच्छब्दार्थावगतिः, न तु शब्दात्केवलादेव । सोमसमाकारमिति-सहोमया कीर्त्या वर्तत इति सोमः । तथा हि
गौरीश्रीभारतीकांतिकीर्तिदुर्गापुलोमजाः।
उमाशब्देन कथ्यंते कार्यस्तुंगोपमार्चिषः ॥१॥ सह मया लक्ष्म्याऽष्टाणिमादिगुणैश्वर्यरूपया वर्त्तते इति समः ।
चन्द्रे छन्दसि लक्ष्म्यां च तथा शंकानिषेधयोः। .
माने मांशब्दसंबंधः कथ्यते शब्दचिन्तकैः ॥ १॥ सोमश्चासौ समश्च सोमसमः सोमसम आकारो यस्य तं कीर्तिलक्ष्मीसमावेशितशरीरावयवसंहति । सोमाभमिति-सोमस्येवाभा यस्यासौ सोमाभः चन्द्रकान्तिः । तथा हि--
ध्यायेदशभुजं शांतं कुन्देन्दुधवलं शिवं ॥३॥ इत्यागमः । तथा भस्मावगुंठनात्पांडुरंगाभस्तं । सोमसमितिसोमसंबंधात्सौत्रामणिप्रभृतिकोऽपि यज्ञवातः सोमशब्देनोपचारादभिधीयते। " षोऽन्तकर्मणि " धातोः सोमं स्यतीति वाक्ये आतोऽनुपत्किप्रत्यये कृते सति सोमसमिति सिद्धे सति तं सोमसं । श्रूयते हि दक्षाध्वरे दाक्षायिणीकोपितेन भगवता भवानीपतिना तच्छिरश्छेदः कृत इति । तथा च शिवपुराणे;___ “छिन्नं शिरो भगवताऽस्य महेश्वरेण
दक्षाध्वरस्य कुपितेन कृते भवान्या" इत्यादि । यथा च मार्कण्डेयः;
चिच्छेद भगवान् क्रुद्धः शिरो यज्ञस्य शंकरः ॥॥ श्रुतावपि शाखाभेदतः पृथक् यज्ञशिरोद्वयमभिहितमिति । सोमदेवमिति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org