________________
नीतिवाक्यामृते
नत्वा वाणी यथाप्रशं दुर्बोधवचनक्रमे।
नीतिवाक्यामृतेऽमुष्मिन्मया किंचिद्विचार्यते ॥२॥ अत्र तावदखिलभूपालमौलिलालितचरणयुगलेन रघुवंशावस्थायिपराक्रमपालितकस्य कर्णकुब्जेन महाराजश्रीमन्महेन्द्रदेवेन पूर्वाचार्यकृतार्थशास्त्रदुरवबोधग्रंथगौरवखिन्नमानसेन सुबोधललितलघुनीतिवाक्यामृतरचनासु प्रवर्तितः, सकलपारिषदत्वान्नीतिग्रंथस्य नानादर्शनप्रतिबद्धश्रोतृणां तत्तदभीष्टः श्रीकंठाच्युतविरंच्यहतां वाचनिकनमस्कृतिसूचनम्। तथा स्वगुरोः सोमदेवस्य च प्रणामपूर्वकं शास्त्रस्य तत्कर्तृत्वं ख्यापयितुं सकलसत्वकृताभयप्रदानं मुनिचंद्राभिधानः क्षपणकवतधर्ता नीतिवाक्यामृतकर्ता निर्विघ्नसिद्धिकरं सकलकल्मषहरं प्रकटार्थपंचकप्रपंचक श्लोकमेकं जगाद- .
सोमं सोमसमाकारं सोमाभं सोमसंभवम् ।
सोमदेवं मुनिं नत्वा नीतिवाक्यामृतं वे ॥१॥ टीका-अत्र तु श्रीमन्महेन्द्रपालदेवस्य परमेश्वरपार्वतीपतौ नितांतभक्तितत्परतां विचिन्त्य प्रथमचराचरगुरुं प्रमथनाथमुररीकृत्य व्याख्यायते। नयनं विजिगीषोस्त्रिवर्गेण संयोजनं नीतिः, नीयते व्यवस्थाप्यते स्वेषु स्वेषु सदाचारेषु चतुर्वर्णाश्रमलक्षणो लोको यस्यों वा सा नीतिः, नीतेर्वाक्यानि वचनरचनाविशेषास्तान्येवामृतमिवामृतं श्रोतृश्रोत्रविवरानवरतामन्दसुन्दरसुखसंदोहदायकत्वात् , राज्ञो वाऽनेकार्थसमुत्पन्नसंमोहमहामू परिहारित्वात् , नीतिवाक्यामृतमहं ब्रुवे-यथावत्प्रतिपादयामि । किं कृत्वा ? नत्वा मनोवचनसंहननजन्मना नमस्कारेण प्रणम्य । कं ? भवं भवन्त्यस्मादुत्पत्तिस्थितिप्रलयरूपाणि चराचराणीति भवः सकलनाकिनिकायनायकः पिनाकीति क्रियासंबंधः। किंविशिष्टं भवं ? सोम
१ शिवपक्षे सोमसंभवमित्यस्य सोमसं भवमिति पदद्वयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org