________________
पुस्तकदातुः प्रशस्तिः।
जिनं नत्वा गिरं स्मृत्वा गुरुं नत्वानुरागतः
प्रशस्ति पुस्तकस्याहं दायकस्यास्य कीर्तये ॥१॥ अथ संवत्सरेऽस्मिन् विक्रमादित्यराज्यात् संवत् १५४१ वर्षे कार्तिकसुदि ५ शुभदिने श्रीचन्द्रप्रभचैत्यालयविराजमाने श्रीहिसारपेरोजाभिधानपत्तने सुलतानवहलोलसाहिराज्यप्रवर्तमाने श्रीमूलसंघे नन्द्याम्नाये सारस्वतगच्छे बलात्कारगच्छे ( गणे) श्रीकुन्दकुन्दाचार्यवंशे परवादिवादकुंभकुंभस्थलविदारकभट्टारकश्रीपद्मनन्दिदेवाः । तत्पट्टकुवलयवनविकासनैकचन्द्रभट्टारकश्रीशुभचन्द्रदेवाः । तत्पट्टे षदू(?)र्कचकचक्रवर्तिविहितपदकमलसेवाभट्टारकश्रीजिनचन्द्रदेवाः । तच्छिष्योऽष्टाविंशतिमूलगुणरत्नरत्नाकरमंडलाचार्यमुनिश्रीरत्नकीर्तिः, तस्य शिष्यो निष्प्रावरणमूर्तिर्मुनिश्रीविमलकीर्तिः, भट्टारकश्रीजिनचन्द्रान्तेवासी पंडितश्रीमेहाख्यः । एतदाम्नाये क्षेत्रपालीयगोत्रे खंडेलवालान्वये सुनामपुरवास्तव्ये जिनशासनप्रभावकपरमश्रावकसंघपतिकल्हूनामा, तत्पत्नी शीलशालिनी साध्वी राणीनाम्नी, तयोश्चत्वारः पुत्रा अनेकतीर्थयात्रादिमहामहोत्सकारापका अर्हदादिपंचपरमेष्ठिचरणारविन्दसेवनैकचंचरीका: सं० हंबा-सं० धीरा-सं० कामा--सं० सुरपतिनामधेयाः । तन्मध्ये संघपतिकामाख्यभार्या विहितानेकत्रतनियमतपोविधानादिसद्धर्मकार्या साध्वी कमलश्रीः, तत्पुत्रौ देवपूजादिपटर्मपद्मिनीखंडमार्तडौ श्रीहस्तिनापुरतीर्थयात्रा प्रभावनाकारणोत्पन्नपुण्यबलप्रचण्डौ सं०
१ संघपतिरित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org