SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक- समुद्देशः । खातक्रियां कुर्वन्नधो व्रजति । तस्मात् पुरुषेण कार्यार्थिना नीचैराचरणे विरक्तिर्न कार्या । तथा च शुक्रः स्वकार्यसिद्धये पुंभिनचमार्गोऽपि सेव्यते । कूपस्य खनने यद्वत् पुरुषेण जलार्थिना ॥ १ ॥ अथ स्वामिना परित्यक्तस्य सेवकस्य येन निर्वृतिर्भवति तदाहस्वामिनोपहतस्य तदाराधनमेव निर्वृतिहेतु जनन्या कृतविप्रियस्य हि बालस्य जनन्येव भवति जीवितव्याकरणं ॥ ७३ ॥ टीका - स्वामिनोपहतस्य निःसारितस्य भृत्यस्य - तदाराधनमेव तत्सेवेनमेव निर्वृतिर्हेतु जीवितव्याकरणं नान्यत् । कथं ? जनन्या मात्रा विहितविप्रियस्य कृतापराधस्य बालकस्य सैव माता जीवितव्याकरणं । तस्माद्भृत्येन निःसारितेन न स्वामी त्याज्यः किं त्वाराधनीय इति । तथा च शुक्रः ४०५ निःसारितस्य भृत्यस्य स्वामिनिर्वृतिकारणं । यथा कुपितया मात्रा बालस्यापि च सा गतिः ॥ १ ॥ इति संकीर्ण समुद्देशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy