SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४०४ नीतिवाक्यामृते टीका-यो नवसेवको भवति नूतनभृत्यो भवति स को नामाहो न भवति विनीतोऽपि तु सर्वो भवति प्रथमदिवसे स्वामिनं स्वकर्मणा रञ्जयति पश्चाद्विकारं करोति तस्मान्नवसेवके विश्वासं न गच्छेत् । तथा च वल्लभदेवः अभिनवसेवकविनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः। धूर्तजनवचननिकरैरिह कश्चिदवञ्चितो नास्ति ॥१॥ अथ यः प्रतिज्ञां करोति तत्स्वरूपमाहयथाप्रतिज्ञं को नामात्र निर्वाहः ॥ ७० ॥ टीका-अत्रास्मिन् कलिकाले यथाप्रतिज्ञं यथा भवति भणितं तस्य नामाहो निर्वाहः, अपि तु न कोऽपि । तस्मात्पुरुषेण स्वल्पापि प्रतिज्ञा न कार्या प्रतिज्ञाभंगेन सुकृतं नाशमेति । तथा च नारद: प्रतिज्ञां यः पुरा कृत्वा पश्चाद्भगं करोति च । ततः स्याद्मनिश्च हसत्येव जानन्ति के ? ॥१॥ अथात्याग्यपि यथा त्यागी भवति तदाह ---- अप्राप्तेऽर्थे भवति सर्वोऽपि त्यागी ।। ७१ ॥ टीका-अप्राप्तावर्थस्य सर्वोऽपि जनस्त्यागी भवति आत्मनो मनोस्थान् करोति यदि समर्थो भवामि तत्सर्वाणि दानानि प्रयच्छामि । दीनांधयतिराज्ञो पयामीति (?) । तथा च रैभ्यः-- दरिद्रः कुरुते वाञ्छां सर्वदानसमुद्भवां। यावन्नामोति वित्तं स वित्ताप्त्या निपुणो भवेत् ॥ १॥ अकार्यार्थिनां पुरुषेण यत्कर्तव्यं तदाह-- अर्थार्थी नीचैराचरणान्नोद्विजेत, किनाधो ब्रजति कूपे जलार्थी ।। ७२ ॥ टीका---नोद्विजेन्नोद्वेगं कुर्यात् । कोऽसौ. कार्यार्थी पुरुषः। कस्मान्नोद्विजत् ? नीचाचरणात् निकृष्टपुरुषाचरणात् । यतो जलार्थी पुरुषः कूपे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy