________________
व्यवहारसमुद्देशः ।
२८३ द्विजान् अर्थिजनांश्च । येनार्जितेन देवान् द्विजान् प्रीणाति तथार्थिजनान याचकान्, (न) केवलं स्वयमुपभुक्ते । तथा चर्षिपुत्रकः
कायक्लेशो भवेद्यस्तु धनार्जनसमुद्भवः।
स शंस्यो धनिनो योऽत्र संविभागो द्विजार्थिषु ॥१॥ अथ नीचानां स्वरूपमाह
चणका इव नीचा उदरस्थापिता अपि नाविकुर्वाणास्तिष्ठन्ति ॥ ३० ॥
टीका-ये नीची अतिनिकृष्टास्ते उदरस्थापिता अपि नाविकुर्वाणा .. नापकारबाह्यास्तिष्ठन्ति । क इव ? चणका इव । यथा चणका धान्यविशेषाः स्वोदरे धृता नाविकुर्वाणास्तिष्ठन्ति जनमध्ये वातकर्मविक्रिय दर्शयन्ति हास्यतां नयन्तीत्यर्थः । तथा च भागुरिः
चणकैः सदृशा ज्ञेया नीचास्तान समाश्रयेत् । सदा जनस्य मध्ये तु प्रकुर्वन्ति विडम्बनं ॥१॥ अथ वन्द्यचरितस्य पुरुषस्य स्वरूपमाह---
स पुमान् वन्द्यचरितो यः प्रत्युपकारमनवेक्ष्य परोपकारं करोति ॥ ३१॥ ____टीका–स पुरुषो वन्द्यचरितो वन्द्यं नमस्करणीयं चरितमस्य स वन्द्यचरितः । किंविशिष्टः ? यः प्रत्युपकारमनवेक्ष्यमाणोऽपरेषामुपकारं करोति । तथा च भागुरिः
उपकाररतो यस्तु वाञ्छते न स्वयं पुनः । उपकारः स वन्द्यः स्याद्वाञ्छते यो न च स्वयं ॥ १ ॥ अज्ञानस्य वैराग्यं भिक्षोर्विटत्वमधनस्य विलासो वेश्यारतस्य शौचमविदितवेदितव्यस्य तत्त्वाग्रह इति पंच न कस्य मस्तकशूलानि ॥ ३२॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org