SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २८२ नीतिवाक्यामृते अथ शत्रोरपि गृहायातस्य यत्कर्तव्यं तदाहशत्रावपि गृहायाते संभ्रमः कर्तव्यः किं पुनर्न महति ॥२६॥ टीका--संभ्रमशद्धेनादरः कथ्यते । कर्तव्यः। कस्मिन् ? शत्रौ । किंविशिष्टे ? गृहायाते । आस्तां तावदुत्तमः । तथा च भागुरिः अनादरो न कर्तव्यः शत्रोरपि विविकिना। स्वगृहे आगतस्यात्र किं पुनर्महतोऽपि च ॥१॥ अथ स्वधर्मो यथा रक्षणीयस्तदाह-- अन्तःसारधनमिव स्वधर्मो न प्रकाशनीयः ॥ २७ ॥ टीका-न प्रकटः कार्यः। कोऽसौ ? स्वधर्मः । किमिव ? अन्तःसारधनमिव । अन्तःसारधनशब्देन लोकोत्तरं वस्तु कथ्यते, तद्यथा चौरादिकस्य प्रकटं न क्रियते तथा धर्मोऽपि । उक्तं च यतो व्यासेन स्वकीयं कीर्तयेद्धर्म यो जनाग्रे स मन्दधीः । क्षयं गतः समायाति पापस्य कथितस्य च ॥१॥ अथ मदप्रमादजैषैिः संजातैः यत्कर्तव्यं तदाह मदप्रमादजैदोषैर्गुरुषु निवेदनमनुशयः प्रायश्चित्तं प्रतीकारः ॥ २८ ॥ ___टीका-प्रायश्चित्तं गुरोर्निवेदयेत् । तथा पुरुषमनस्तापं । तथा च भारद्वाजः मदप्रमादजं तापं यथा स्यात्तनिवेदयेत् । गुरुभ्यो युक्तिमाप्नोति मनस्तापो न भारत ! ॥१॥ अथ श्रीमतोऽर्थार्जने य: कायक्लेशो भवति तत्स्वरूपमाह श्रीमतोऽर्थार्जने कायक्लेशो धन्यो यो देवद्विजान् प्रीणाति ॥२९॥ टीका-स तस्य कायक्लेशः शरीरसंतोषोऽर्थार्जने । कस्य ? धनिनः । किंविशिष्टः कायक्लेशः ? येन तुष्टेन प्रीणाति तुष्टिं नयति । कान् ? देव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy