SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ व्यवहारसमुद्देशः। २८१ स्वयं दत्तं च यद्दानं न ग्राहयं पुनरेव तत् । . यथा स्ववान्तं तद्वच्च दूरतः परिवर्जयेत् ॥ १॥ कुलीनैः प्रत्युपकारे कृते यत्कर्तव्यं तदाहउपकृत्य मूकभावोऽभिजातीनाम् ॥ २३ ॥ टीका-येऽभिजाताः कुलीना भवन्ति ते परोपकारं कृत्वा मूका भवन्ति । मया तवैतत्कृतमेवं न वदन्ति प्रत्युपकारभयात् । तथा च वल्लभदेवः इयमपरा काचिदृश्यते महतां महती वा भावचित्तता। उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशंकया ॥१॥ अथ सत्पुरुषाणां वधिरभावो भवति तदाहपरदोषश्रवणे वधिरभावः सत्पुरुषाणां ॥ २४ ॥ टीका—भवति। कोऽसौ ? वधिरभावः । केषां ? सत्पुरुषाणां । क ? परदोषश्रवणे । ये सत्पुरुषा भवन्ति ते परदोषश्रवणे वधिरा भवन्ति । कोऽर्थः श्रुतमप्यश्रुतमिव ते परदोष हृदये न धारयन्ति । तथा च गर्गः परदोषान्न शृण्वन्ति येऽपि स्युनरपुंगवाः। शृण्वतामपि दोषः स्याद्यतो दोषान्यसम्भवात् ॥१॥ अथ महाभाग्यानामन्धभावो यथा भवति तदाहपरकलत्रदर्शनेऽन्धभावो महाभाग्यानाम् ॥ २५ ॥ टीका-महान्ति भाग्यानि पुण्यानि पूर्वकृतानि यैस्ते महाभाग्यास्तेषां सलोचनानामप्यन्धभावो भवति । कस्मिन् सति ? परकलत्रदर्शने । कोऽर्थो दृष्टिगतमपि परकलत्रं नावलोकनीयं । तथा च हारीत: अन्यदेहान्तरे धर्मो यैः कृतश्च सुपुष्कलः। इह जन्मनि तेऽन्यस्य न वीक्षन्ते नितंबिनीम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy