SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २८० नीतिवाक्यामृते टीका-यत्र यस्मिन् कृत्ये उपकारलक्षणे उक्तिर्भवति चाकूतेश्च व्यर्थता स्यात् तत्कृत्यं न भवति स्नेहलक्षणं पारत्रिकं च । तथा च भागुरिः-- योन्यस्य कुरुते कृत्यं प्रतिकृत्यतिवाञ्छया। न तत्र कृत्यं भवेत्तस्य पश्चात्फलप्रदायकम् ॥१॥ अथ यकाभ्यां मिथो निर्वाहो न भवति तावुच्येतेतयोः को नाम निर्वाही यौ द्वावपि प्रभूतमानिनौ पंडितो लुब्धौ साहंकारौ ॥ २१ ॥ ___टीका-तयोस्तस्मिन् कृत्ये निर्वाहो भवति ताभ्यां तत्प्रयोजनं सिध्यतीत्यर्थः । ........तथा द्वावपि पण्डितौ शास्त्रज्ञौ परं लुब्धौ तथा द्वावपि मूर्जी परस्परमसहनौ । एवं ज्ञात्वा तुल्यगुणौ तौ कृत्ये न नियोजनीयौ बुद्धिमता स्वार्थसिद्धये । तथा च हारीतः । समी मानसंयुक्तौ पण्डितो लोभसंश्रयो । मिथोपदेशपरौ मूखौँ कृत्ये मिथो न योजयेत् ॥१॥ अथ स्वदत्तस्य निषेधमाहखवान्त इव स्वदत्ते नाभिलाषं कुर्यात् ॥ २२॥ टीका-न कुर्यात् न कर्तव्यः। कौऽसौ ? अभिलाषो वाञ्छालक्षणः । कस्मिन् ? स्वदत्ते आत्मनैव यदत्तं दानं । कस्मिन्निव ? स्ववान्त इव निजच्छदित इव । मिष्टान्नमपि यच्छदितं तस्योपरि यथा वाञ्छा न क्रियते, एवं निजदत्तेऽपि । तथा च जैमिनिः १ लिखित पुस्तके सूत्रमीदृशमेव किंतु व्याख्यातु मुद्रित-पुस्तकस्थसूत्रानुकूला। २ लुब्धौ मूखौं चासहनौ वा इति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy