________________
व्यवहारसमुद्देशः।
२७९
टीका-यत्र यस्मिन् ज्ञानेऽन्धता भवति गर्वलक्षणा। कस्य ? चित्तस्य तदज्ञानं भवति । लोचनफलस्यापि सैवान्धता तया । एतदुक्तं भवति, बोधस्याः त्सदयोऽपि (!) चित्तं पश्यति, यः पुनर्विद्यागौं भवति सोऽपि पुरस्थमपि सज्जनं ( न ) नमस्करोति । तथा च शुक्रः
विद्यामदो भवेन्नीचः पश्यन्नपि न पश्यति । पुरस्थे पूज्यलोकं च नातिबाह्यं च बाह्यतः॥१॥ अथ सौजनलक्षणमाहतत्कि सौजन्यं यत्र परोक्षे पिशुनभावः ॥ १८ ।।
टीका-यत्र यस्मिन् सौजन्ये परोक्षे पृष्टिदेशे पैशून्यं क्रियतेऽग्रतः स्थिते प्रियालापः क्रियते तत्सौजन्यव्याजेन विपक्षत्वमिति । तथा च गुरु:
प्रत्यक्षेऽपि प्रियं ब्रूते परोक्षे तु विभागते । सौजन्यं तस्य विज्ञेयं यथा किंपाकभक्षणं ॥१॥ अथ लक्ष्म्या दूषणमाहसा किं श्रीर्यया न सन्तोषः सत्पुरुषाणां ॥ १९ ॥ टीका-उत्तमपुरुषाणां यया लक्ष्म्या विद्यमानया सन्तोषो न भवति सापि विद्यमानापि नास्तीति मन्तव्यं । यतोऽधिकां लक्ष्मी वाच्छन् सत्पुरुषो लक्षं लक्षाधिपतिः स्वराज्यं स्वराज्योऽपि चक्रवर्तित्वं देवत्वं चक्रवर्ती च वाञ्छमानो (!)।
.............लौल्यमाश्रितः। ततोऽति लोभा दृश्यन्ते भूमिपा नद्युषो यथा ॥१॥ अथ कृत्यस्य दूषणमाहतरिक कृत्यं यत्रोक्तिरुपकृतस्य ।। २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org