SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २७८ नीतिवाक्यामृते तत्कि प्रेम यत्र कार्यवशात्प्रत्यावृत्तिः ॥ १४ ॥ टीका-यत्र यस्मिन् स्नेहे कार्यवशात्प्रवृत्तिः प्रयोजनवशागम्यते न सर्वकालं । एतदुक्तं भवति............। तथा च राजपुत्रः यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिल्लभन्तेऽन्तरं यद्दाक्षिण्यवशाद्भयाच्च सहसा नर्मोपहासाच्च यान् । यल्लजं न रुणद्धि यत्र शपथैरुत्पद्यते प्रत्ययः तीक प्रेम स उच्यते परिचयस्तत्रापि कोपेन किं ॥१॥ अथाचरणस्य दूषणमाहततिकमाचरणं यत्र वाच्यता माया व्यवहारो वा ॥ १५ ॥ टीका-आचरणशब्देन सदनुष्ठानमुच्यते । श्रोत्रियाणां यस्य यदनुष्ठाने रहस्यं वाच्यता भवति परदारचौर्यादिका तदाचरणं न भवति वृथा क्लेशः । अथवा यस्य यो व्यवहारो भवति कपटेन दम्भेन व्यवहरति तदाचरणं क्लेशाय पारत्रिकं न भवति । तथा च जैमिनिः जायते वाच्यता यस्य श्रोत्रियस्य वृथा हि तत् । अनाचारात्मदादिष्टं श्रोत्रियत्वं वदन्ति ना?॥१॥ अथापत्यस्य दूषणमाहतत्किमपत्यं यत्र नाध्ययनं विनियो वा ॥ १६ ॥ टीका-यत्र यस्मिन्नपत्ये नास्ति न विद्यते । किं तत् ? अध्ययन विद्यालक्षणं विनयो वा भक्तिर्वा जनकस्य तदनपत्यं भवति अपत्यरूपेण तच्छत्रुरूपमन्यदेहजं गृहसंजातं । तथा च वल्लभदेवः कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः । किं तया क्रियते धेन्वा या न सूते न दुग्धदा ॥१॥ अथ ज्ञानस्य दूषणमाहततिक ज्ञानं यत्र मदेनान्धता चित्तस्य ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy