________________
व्यवहारसमुद्देशः ।
२७७
अथ गृहस्थस्य स्वरूपमाहस किं गृहस्थो यस्य नास्ति सत्कलत्रसम्पत्तिः ॥११॥ टीका-नास्ति न विद्यते । कासौ ? सत्कलत्रसम्पत्तिः। कस्मिन् ? गृहे । कस्य ? गृहस्थस्य । एतदुक्तं भवति, यस्य गृहे सत्कलत्रस्य पतिव्रतालक्षणस्य न वासो भवति स गृहस्थो न भवति स नरकस्थः कथ्यते । तथा च शुक्रः-- .
कुरूपा गतशीला च बंध्या युद्धपरा सदा । स गृहस्थो न भवति स नरकस्थः कथ्यते ॥१॥ अथ दानस्य दूषणमाह-- तत्कि दानं यत्र नास्ति सत्कारः ॥ १२ ॥
टीका-यत्र नास्ति न विद्यते । कोऽसौ ? सत्कारः पूजालक्षणः तद्दानं न भवति निष्फलं हि तत् । एतदुक्तं भवति, यद्दानं शास्त्रोक्तविधिना न दीयते तदानं न भवति यत एव जन्मान्तिकं हि तत्। तथा च वशिष्टः
काले पात्रे तथा तीर्थ शास्त्रोक्तविधिना सह ।
यद्दत्तं चाक्षयं तद्विशेष स्यादेकजन्मजम् ॥ १॥ अथ भोजनस्य दूषणमाहतम्कि भुक्तं यत्र नास्त्यतिथिसंविभागः ॥ १३ ॥ टीका-नास्ति न विद्यते । कोऽसौ ? अतिथिसंविभागः । कस्मिन् ? भुक्ते भोजने यत्र तत्पशुचेष्टितं । यथा पशुस्तृणानि भुक्त्वा जीवनार्थ, मूत्रपुरीषमुत्सृजति तथा सोऽपि ज्ञातव्यः । अतिथिस्त्रीविश्वदेवतास्वर्योढं प्राहुः । गकश्च (गावश्च ) । अदत्वा एतेभ्यो योऽनाति स विशिष्टाङ्गः पशुर्जेयः । तथा च नारदः--
अदत्वा यो नरोऽप्यत्र स्वयं भुंक्ते गृहाश्रमी ।
स पशुर्नास्ति सन्देहो द्विपदः शृङ्गवर्जितः ॥१॥ अथ प्रेम्णो दूषणमाह-----
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org