SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २७६ . नीतिवाक्यामृते यार्थेन प्रणयिनी करोति चाङ्गाकृष्टिं सा किं भार्या ॥ ७ ॥ टीका-या स्त्री भार्या अङ्गाकृष्टिं करोति शयनेऽङ्गानि प्रगल्भयति तथार्थेन प्रणयिनी भवति सा भार्या न भवति सा वेश्या । तथा च नारद:---- मोहने रक्षतेऽङ्गानि यार्थेन विनयं व्रजेत् । न सा भार्या परिशेया पण्यस्त्री सा न संशयः॥१॥ अथ देशस्य दूषणमाहस किं देशो यत्र नास्त्यात्मनो वृत्तिः ॥ ८॥ टीका-वृत्तिशब्देन वर्तनमुच्यते । यत्र यस्मिन् देशे स्वात्मीयेऽपि न वर्तनं भवति स परदेशो विज्ञेयः । तथा च गौतमः स्वदेशेऽपि न निर्वाहो भवेत्स्वल्पोऽपि यत्र च । विज्ञेयः परदेशः स त्याज्यो दूरेण पंडितैः ॥१॥ अथ बान्धवस्य दूषणमाहस किं बन्धुर्यो व्यनेषु नोपतिष्ठते ॥९॥ टीका-~यो व्यसनेषु आपत्कालेषु संजातेषु नोपतिष्ठते न साहायं करोति स बान्धवो न भवति। विडो विधः (१) सहाय्यं करोति स बान्धक इति । तथा च चाणिक्य: परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥१॥ अथ मित्रस्य दूषणमाहतम्कि मित्रं यत्र नास्ति विश्वासः ॥१०॥ टीका-यस्योपरि धनधान्यकलत्राणां विश्वासो न भवति तन्मित्रं न भवति । स तेन सह विषयः (१) । तथा च गर्गः धनं धान्यं कलत्रं वा निर्विकल्पेन चेतसा । अर्पितं रक्षयेदत्तु तन्मित्रं कथितं बुधैः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy