SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ व्यवहारसमुद्देशः । २७५ मुक्त्वा दानं तपो वाथ तथा प्रायोपवेशनं । करोति यश्चतुर्थ यत्तीर्थे कर्म स पापभाक् ॥ १॥ तीर्थसिन्धुदेवस्य परिहरणं क्रव्यादेषु कारुण्यानि स्वाचारा(रो) द्यतेषु पापभीरुत्वमिव वा प्राहुरधार्मिकमनिष्ठुरत्वमविलुचकत्वं प्रत (ता) रणेन तीर्थवासिनो प्रकृतिः ॥ ४ ॥ अथ प्रभोर्दूषणमाह स किं प्रभुर्यः कार्यकाले एव न सम्भावयति भृत्यान् ॥५॥ ___टीका--(स कि प्रभुर्यः) न (संभावयति) न नियोजयति । कान् ? भत्यान् । क ? कार्यकाले प्रयोजने जाते । एव शब्दो नियमार्थः । तथा च भगु: कार्यकाले तु संप्राप्ते संभावयति यः (न) प्रभुः। यो भृत्यं सर्वकालेषु स त्याज्यो दूरतो बुधैः ॥१॥ अथ भृत्यस्य दूषणमाहस किं भृत्यः सखा वा यः कार्यमुद्दिश्यार्थ याचते ॥६॥ टीका-यः कार्य प्रयोजनमुद्दिश्यार्थ याचते स्वामिनो मृत्यः प्रत्यार्थानां कारणं स च भत्यो न भवति । सखापि तादृग्रूपो न भवति । तथा च भारद्वाजः कार्ये जाते च यो भृत्यः सखा वार्थ प्रयाचते। नं भृत्यः स सखा नैव तौ द्वावपि हि दुर्जनौ ॥ १॥ १ तीर्थोपवासिषु देवस्वापरिहरणं क्रव्यादेषु कारुण्य मिव स्वाचारच्युतेषु पापभीरुत्वमिव प्राह अधार्मिकत्वमतिनिष्ठुरत्वं वञ्चकत्वं प्रायेण तीर्थवासिनां प्रकृतिः । मुद्रित-मूलपुस्तकस्थमिदं सूत्रं । २ अस्मिन् विषये किमप्युल्लेखो न कृतः टिकाकर्ता । किं वा पाठोऽत्रस्थश्चयुतः इति न जानीमः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy