SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७ व्यवहार-समुद्देशः। अथ व्यवहारसमुद्देशो व्याख्यायते । तत्र तावन्नराणां (कलत्रं ) यद्भवति तदाह कलत्रं नाम नराणामनिगडमपि दृढं बन्धनमाहुः ॥१॥ टीका- एतद्यत्कलत्रं भार्यालक्षणं नराणामनिगडमपि सुकोमलमपि दृढं बन्धनमाहुः कथयन्ति लोकाः । तथा च शुक्रः न कलत्रात्परं किंचिद्वन्धनं विद्यते नृणां । यस्मात्तत्स्नेहनिर्बद्धो न करोति शुभानि यत् ॥१॥ अथ यानि यावन्ति नरेण पोषणीयानि तान्याह त्रीण्यवश्यं भर्तव्यानि माता कलत्रमप्राप्तव्यवहाराणि चापत्यानि ॥ २ ॥ ___टीका-अवश्यं निश्चयेन त्रीण्येतानि वक्ष्यमाणानि भर्तव्यानि पोषणीयानि । एका तावन्माता । द्वितीयं कलत्रं । तृतीयमपत्यानि । किंविशिष्टानि ? अप्राप्तव्यवहाराणि यानि व्यवहारं कर्तुं न जानन्ति । तथा च गुरु:---- मातरं च कलत्रं च गर्भरूपाणि यानि च । अप्राप्तव्यवहाराणि सदा पुष्टिं नयेद्बुधः ॥१॥ अथ तीर्थसेवायाः फलमाहदानं तपः प्रायोपवेशनं तीर्थोपासनफलम् ॥३॥ टीका-तीर्थोपासनस्य तीर्थसेवायाः फलत्रयमेतत् । एकं तावद्दानं । तथा द्वितीयं तपः । तृतीयं प्रायोपवेशनं अनशनकरणमित्यर्थः । नं तीर्थमाश्रित्य गृहव्यापारे यथा वर्तितव्यं । तथा च गर्गः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy