________________
सदाचारसमुद्देशः ।
२७३
अप्रियकर्तुर्न प्रियकरणात्परममाचरणं ॥ ६३ ॥ अप्रयच्छन्नार्थिनो न परुषं ब्रूयात् ॥ ६४॥ स स्वामी मरुभूमिर्यत्रार्थिनो न भवन्तीष्टकामाश्च ।। ६५ ॥ प्रजापालनं हि राज्ञो यज्ञो न पुनर्भूतानामालम्भः ॥६६॥
प्रभूतमपि नानपराधसत्वव्यावृत्तये नृपाणां बलं धनुर्वा किन्तु शरणागतरक्षणाय ॥ ६७॥
इति सदाचारसमुद्देशः ।
१ परं मारणकारणमस्ति इत्यपि पाठः । २ थिने इति पाठः । ३ सा श्रीमरु. इति पाठः ४ प्राप्तकामा इति पाठः । ५ व्यापत्तये इति पाठः ।
नीति०-१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org