________________
२७२
नातवाक्यामृते
रजस्वलाभिगामी चाण्डालादप्यधमः ॥४७॥ सलज्जं निलजं न कुयात् ॥ ४८ ॥ स पुमान् सवस्त्रोऽपि नग्न एव यस्य नास्ति सच्चरित्रमागरण ४९ स नग्नोऽप्यनग्न एव यो भूषितः सच्चरित्रेण ॥ ५० ॥ सर्वत्र संशयानेषु नास्ति कार्यसिद्धिः ॥ ५१ ॥ न क्षीरधृताभ्यां परं भोजनमस्ति ॥ ५२ ॥ परोपघातेन वृत्तिरभव्यानां ॥ ५३ ।। वरमुपवासो न पराधीनं भोजनं ॥ ५४॥ स देशोऽनुसर्तव्यो यत्र नास्ति वर्णशंकरः ॥ ५५ ॥ स जात्यन्धो यः परंलोकं न पश्यति ॥५६॥
व्रतं विद्या सत्यमानृशंस्यमलौल्यतां च ब्राह्मण्यं न पुनर्जातिमात्रं ॥ ५७ ॥
निस्पृहानां का नाम परापेक्षा ॥ ५८॥ के पुरुषमाशा न क्लेशयति ।। ५९ ॥ संयमी गृहाश्रमी वा यस्याविद्यातृष्णाभ्यामनुपहतं चेतः ६० शीलमलङ्कारः पुरुषाणां न देहखेदावहो बहिः॥ ६१ ॥ कस्य नाम नृपतिमित्रं ॥ ६२ ॥
१ *अस्मादग्रे "सहानुरूपं कारब्धव्यम् । धनश्रद्धानुरूपस्त्यागोऽनुसतव्यः, एतत्सूत्रद्वयमुपलभ्यते मुद्रित-पुस्तके । २ पटावृतोऽपि पाठान्तरम् । ३ यो न भूषितः इति पाठान्तरं मुद्रित-पुस्तके तच्चायुक्तमित्यवभाति । ४ अन्यत्परं रसायनमस्ति पाठान्तरम् । ५ निर्भाग्यानां पाठान्तरम् ६ न पुनः इति पाठातरम् । ७ परलोकमिति पाठः। ८ अलौल्यवाचश्चेति पाठान्तरम् । ९कं नामेत्यपि पाठः। १० संयमी वा इत्यपि पाठः । ११ बहिराकल्प इत्यपि पाठः। कटककुडलादिभूषणमाकल्पः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org