________________
सदाचारसमुद्देशः।
२७१ __ आत्मसंभावितः परेषां भृत्यानामसहमानश्च भृत्यो हि बहुपरिजनमपि करोत्येकाकिनं स्वामिनं ॥ ४० ॥
टीका-यो भृत्य आत्मसंभावितः सगर्वो भवति स परेषां भृत्यानामसहमानो बहुपरिजनमपि प्रभूतभत्यमपि स्वामिनमेकाकिनं करोति । एतदुक्तं भवति, यस्य स्वामिनः सगर्वो भृत्योऽन्येषां भृत्यानामहसमानोनुग्रहास्तो भवति स स्वामी एकाकी भवति तथापरभृत्यैस्तज्यत इति । तथा च राजपुत्रः--
प्रसादाच्या भवेद्भत्यः स्वामिनो यस्य दुष्टधीः ।
स त्यज्यतेऽन्यभृत्यैश्च शुष्को वृक्षो जडैर्यथा ।। १॥ अथ राज्ञा यथा दण्डः पातयितव्यस्तथाह-- अपराधानुरूपो दण्डः पुत्रेऽपि प्रणेतव्यः ॥ ४१ ।। टीका-प्रणेतव्यः पातनीयः। कोऽसौ ? दण्डः । किंविशिष्ट ? अपराधानुरूपः । कस्मिन् ? पुत्रेऽपि आस्तां तावदन्येषु । तथा च शुक्रः
अपराधानुरूपोऽत्र दण्डः कार्यों महीभुजा।
पुत्रस्यापि किमन्येषां ये स्युः पापपरायणाः ॥१॥ अथ भूयोऽपि भूभुजा यत्कर्तव्यं तदाहदेशानुरूपः करो ग्राह्यः ॥ ४२ ॥ प्रतिपाद्यानुरूपं वचनमुदाहर्तव्यं ॥ ४३ ॥ आयानुरूपो व्ययः कार्यः ॥ ४४ ॥ ऐश्वर्यानुरूपो प्रसादो विधेयः ॥ ४५ ॥ स पुमान् सुखी यस्यास्ति सन्तोषः ॥ ४६॥
१ प्रतिपन्युनुरूप इति पाठान्तरम् । २ कर्तव्यत्यापे पाठः। ३ विलास इत्यपि पाठः । ४ विधातव्य इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org