SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७० नीतिवाक्यामृते कथं स्याद्विजयस्तस्य तथैवाभ्युदयः पुनः। भूपतेर्यस्य नो कीर्तिः कीर्त्यतेऽरिसभासु च ॥१॥ अथ गृहे पुरुषेण कुटुम्ब धरणीयं यत्र तत्स्वरूपमाहतस्य गृहे कुटुंम्बं धरणीयं यत्र न भवति परेषामिषम्॥३७॥ टीका-तस्य पुरुषस्य गृहे कुटुम्बं भार्यादिकं पुरुषेण स्थापनीयं यत्र परेषाभिषमुपभोग्यं न भवति । येभ्यो भयं क्रियमाणमास्ते तेषां भयं यत्र न भवति । तथा च जैमिनिः नामिषं मन्दिरे यस्य विप्लवं वा प्रपद्यते । कुटुम्बं धारयेत्तत्र य इच्छेन्छेयमात्मनः ॥ १॥ अथ परस्त्री द्रव्यरक्षणेन यद्भवति तदाह परस्त्रीद्रव्यरक्षणेन नात्मनः किमपि फलं विप्लवेन महाननर्थसम्बन्धः ॥ ३८ ॥ टीका-वैरसम्बन्ध इत्यर्थः । तस्मा परस्त्रियं परवित्तं च रक्षणार्थ न गृह्णीयात् । तथा चात्रिः परार्थ परनारी वा रक्षार्थ योऽत्र गृह्णाति। विप्लवं याति चेद्वित्तं तत्फलं वैरसम्भवं ॥१॥ अथात्मानुरक्तस्य यत्कर्तव्यं तदाह आत्मानुरक्तं कथमपि न त्यजेत् यद्यस्ति तदन्ते तस्य सन्तोषः ।। ३९ ॥ टीका-आत्मानुरक्तः कथमपि न सन्त्याज्यो यद्यस्ति चेत्तस्य सन्तोषः । तथा च गुरु: अभियुक्तजनं यच्च न त्याज्यं तद्विवेकिना। पोषणीयं प्रयत्नेन यदि तस्य शुभार्थता ॥१॥ अथ यादृशो भृत्यो न करणीयस्तत्स्वरूपमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy