SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सदाचारसमुद्देशः । २६९ परोपकारो योगिनां महान् भवति श्रेयोबन्ध इति ॥ ३३ ॥ टीका-श्रेयोबन्धो भवति कल्याणबन्धो भवति । किविशिष्टः ? महान् । कोऽसौ ? परोपकारः । केषां ? योगिनां महापुरुषाणां । तथा च जैमिनिः-- उपकारो भवेद्योऽत्र पुरुषाणां महात्मनां । कल्याणाय प्रभूताय स तेषां जायते ध्रुवम् ॥१॥ अथ शरणागतानां परीक्षामाहका नाम शरणागतानां परीक्षा ॥ ३४ ॥ टीका-गतार्थमेतत् । अथ पातकीनां महासत्वानां च स्वरूपमाह अभिभवनमंत्रेण परोपकारो महापातकिनां न महासत्वानां ॥ ३५ ॥ टीका-अभिभवनमंत्रेणाभिलाषमंत्रेण परोपकारः । केषां ? महापातकिनां न महासत्वानां । ये महासत्वा तेषामुपकारोऽभिलापरहितः। तथा च शुक्रः महापातकयुक्ताः स्युस्ते नियोति वरं बलान् । अभिभवनमंत्रेण न सद्वाद कथंचन ॥१॥ अथ यस्य भूपतेः शत्रुः सभासु गुणग्रहणं न क्रियते तस्य यद्भवति तदाह तस्य भूपतेः कुतोऽभ्युदयो जयो वा यस्य द्विषत्सभासु नास्ति गुणग्रहणप्रागल्भ्यं ।। ३६ ।। टीका-तस्य भूपतेः कुतोऽभ्युदयः कयं वापि जयः स्यात् । यस्य द्विषत्सभासु नास्ति न विद्यते । किं तत् ? गुणग्रहणप्रागल्भ्यं गुणग्रहणप्राचुर्यं । तथा च शुक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy