SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २६८ नीतिवाक्यामृते अपूर्वेषु प्रियपूर्व सम्भाषणं स्वर्गच्युतानां लिंगम् ॥ ३० ॥ टीका-स्वर्गविमुक्तानां मर्त्यलोकमुपागतानां पुरुषाणां लिगं चिन्हं ज्ञायते । कथमपूर्वेषु लोकेषु दृष्टेषु प्रियपूर्व मधुरं प्रथमं संभाषणं जल्पनं । यः पुरुषोऽपूर्व जनं दृष्ट्वा प्रियालापैरालापयत्यसौ स्वर्गादवतीर्णो ज्ञेयः । तथा च गुरु: अपूर्वमपि यो दृष्ट्वा संभाषयति वल्गु च । स शेयः पुरुषस्तज्ज्ञैर्यदोषो त्यागतो दिवः ॥१॥ अथ मृता अपि पुरुषा ये जीवन्त इव ज्ञायन्ते तानुद्दिश्याहन ते मृता येषामिहास्ति शास्वती कीर्तिः ॥ ३१ ॥ टीका-ते पुरुषा जीवन्तो ज्ञेया मृता अपि । येषामस्ति कीर्तिः । किंविशिष्टा ? शास्वती अविनाशिनी प्रासाददैवकुलादिलक्षणा । तथा च नारद: मृता अपि परिज्ञया जीवन्तस्तेऽत्र भूतले । येषां सन्दिश्यते कीर्तिस्तडागाकरपूर्विका ॥ १ ॥ अथ भूभारस्वरूपभूपस्य लक्षणमाह स केवलं भूभाराय जातो येन न यशोभिर्धवलितानि भुवनानि ॥ ३२ ॥ टीका-स पुरुषः केवलं भूभाराय पृथिवीभाराय जातः । यस्य किं ? यस्य न धवलितानि न शुक्लीतानि । कानि ? भुवनानि । कैः १ यशोभिः । तस्य जन्म पृथ्वीभाराय केवलमिति । तथा च गौतमः भुवनानि यशोभिर्नो यस्य शुक्लीकृतानि च । भूमिभाराय संजातः स पुमानिह केवलं ॥१॥ अथ योगिनां यः परोपकारो भवति तत्स्वरूपमाह१ यतोऽसावागतो दिवः इति भाव्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy