________________
सदाचारसमुद्देशः ।
२६७.
अतीते च वस्तुनि शोकः श्रेयानेव यद्यस्ति तत्समागमः २७ टीका अतीतेऽतिक्रान्ते वस्तुनि पदार्थे योऽसौ शोकः क्रियते । स श्रयान् भवति । क्रियतास्ति दोषः (?) | यदि किं स्यात् ? यदि तत्समागमो भवति शौकेन कृतेन तस्य वस्तुनोऽन्यथा दोष एव । तथा च
भारद्वाज:
मृतं वा यदि वा नष्टं यदि शोकेन लभ्यते । तत्कार्येणान्यथा कार्यः केवलं कायशोषकृत् ॥ १ ॥
अथ (शोकमात्मनि चिरामनुवासयन् यथा त्रिवर्गं नाशयति तदाह ). शोकमात्मनि चिरमनुवासयस्त्रिवर्गमनुशोषयति ॥ २८ ॥
टीका - अनुशोषयत्युद्वासयति । किं? त्रिवर्गे धर्मार्थकामलक्षणं । किं कुर्वन्ननुवासयन् धारयन् । क ? आत्मनि निजशरीरे । कथं धारयन् ? चिरं प्रभूतकालं । कं ? शोकं । शोकमात्मनि धारयस्त्रिवर्गं नाशयतीति । तथा च कौशिकः
-
यः शोकं धारयेद्देहे त्रिवर्ग नाशयेद्धि सः ।
क्रियमाणं चिरं कालं तस्मात्तं दूरतस्त्यजेत् ॥ १ ॥
अथ कापुरुषस्य स्वरूपमाह
स किं पुरुषो योऽकिंचनः सन् करोति विषयाभिलाषं । २९| टीका -- स किं पुरुषो न भवति पशुरेव । किंविशिष्टः ? अकिंचनो दरिद्रः सन् विषयाभिलाषमिन्द्रियसुखमनुभवितुमिच्छति । तस्मात्पुरुषेण धनोपार्जनमादौ कार्य ततश्च विषय सौख्यमनुभवनीयं । तथा च नारदः
-
दरिद्रो यो भवेन्मर्त्यो हीनो विषयसेवने । तस्य जन्म भवेद्वयर्थं प्राहेदं नारदः स्वयं ॥ १ ॥ अथ स्वर्गीयातस्य पुरुषस्य चिन्हमाह -
१ कल्पितोऽयं. पाठः कंसस्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org