SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६६ नीतिवाक्यामृते टीका-कस्य पराभवं न करोति अपि तु सर्वस्यापि जनस्य । कोऽसौ ? विक्रमः पराक्रमः । किं कृत्वा ? अविज्ञाय । किं तत् ? आत्मानं । तस्मादात्मानं विज्ञाय शत्रोरुपरि विक्रमः कार्यः। तथा च वल्लभदेवः-. यः परं केवलो याति प्रोन्नतं मदमाश्रितः । विमदः स निवर्तेत शीर्णदन्तो गजो यथा ॥१॥ पराभियोग्यस्य यदुत्तरं भवति तदाह - नाक्रान्तिः पराभियोगस्योत्तरं किन्तु युक्तरुपन्यासः॥२४॥ टीका-न उत्तरं न्यक्कारं । कोऽसौ ? आक्रान्तिराक्रमणं । कस्य ? पराभियोगस्य शत्रुनिग्रहस्य । किन्तु तर्हि युक्तरुपन्यासो युक्तिकरणं येन तस्य निग्रहो भवतीति । तथा च गर्गः नाक्रान्त्या गृह्यते शत्रुर्यद्यपि स्यात्सुदुर्लभः । युक्तिद्वारेण संग्राह्यो यद्यपि स्याबलोत्कटः॥१॥ राज्ञोऽस्थाने कुपितस्य कुतः परिजनः ।। २५ ।। टीका--गतार्थ मेतत् । अथ मृतेषु विषयेषु यत्कर्तव्यं तदाह न मृतेषु रोदितव्यमश्रुपातसमा हि किल पतन्ति तेषां हृदयेष्वङ्गाराः ॥२६॥ टीका-मृतेषु पुरुषेषु पाश्चात्यैर्न रोदितव्यं यतो निपतन्ति तेषां मृतानां हृदयेष्वङ्गाराः । किंविशिष्टाः ? अश्रुपातसमा अश्रुपाततुल्याः । किलेति कोमलामंत्रणे । एतज्ज्ञात्वा मृतेषु विषये न रोदितव्यं यदि स्नेहो भवति तदूर्खदैहिकद्वारेण रोदितव्यमिति । तथा च गर्गः-- श्लेष्मास्तु बान्धवैर्मुक्तं प्रेतो भुंक्ते यतो यशः। तस्मान रोदितव्यं स्यात् क्रिया कार्या प्रयत्नतः॥१॥ अतीते च वस्तुनि यथा शोकः श्रेयस्करो भवति तदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy