SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सदाचारसमुद्देशः। यत्प्रयच्छति न स्वामी सेवितोऽप्यल्पकं फलं । कल्पवृक्षोपमोऽन्येषां तत्फलं पूर्वकर्मणः ॥१॥ अथ सदा दुःखितः पुरुषो यथा भवति तदाहस सदैव दुःखितो यो मूलधनमसंवर्धयन्ननुभवति ॥ २० ॥ टीका–स पुरुषः सदैव दुःखितो भवति । यः किं करोति ? अनुभवति व्ययं करोति। किं कुर्वन् ? असंवर्धयन् । किं तत् ? मूलधनं पितृपैतामहं नाम । कथमसंवर्धन् ? केवलं । केवलं भक्षयन् न वृद्धिं नयति सदा दुःखितो दरिदो भवतीत्यर्थः । तथा च गौतमः न वृद्धि यो नयोद्वित्तं पितृपैतामहं कुधीः । केवलं भक्षयत्येव स सदा दुःखितो भवेत् ॥ १॥ अथ मूर्खदुर्जनपतितैः सह संगेन यद्भवति तदाह--- मूर्खदुर्जनचाण्डालपतितैः सह संगतिं न कुर्यात् ॥ २१ ॥ टीका-न कुर्यान्न विदधीत । कां ? संगति मैत्रीं । कथं ? सह साई । कैः ? मुर्खदुर्जनपतितचाण्डालैः । तथा च मूर्खदुर्जनचाण्डालैः संगतिं कुरुतेऽत्र यः। स्वप्नेऽपि न सुखं तस्य कथंचिदपि जायते ॥१॥ अथ क्षणिकचित्तानुरागलक्षणमाहकिं तेन तुष्टेन यस्य हरिद्राराग इव चित्तानुरागः ॥ २२ ॥ टीका-किं तेन पुरुषेण तुष्टिं गतेन। यस्य किं ? यस्य चित्तानुरागो हरिद्राराग इव-क्षणमात्रं सततं न भवति । तथा च जैमिनिः-- आजन्ममरणान्ते यः स्नेहः स स्नेह उच्यते साधूनां यः खलानां च हरिद्राराग सन्निभः ॥१॥ अथात्मानमजानन् यः पराक्रमं करोति तमाहखात्मानमविज्ञाय पराक्रमः कस्य न परिभवं करोति ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy