________________
२६४
नीतिवाक्यामृते
___टीका-नास्ति न विद्यते। किं तत् ? परमुत्कृष्टं दानं यद्दीयते । केषु ? भीतेषु भयत्रस्तेषु । (कस्मात् ? अभयदानात् ) अभयदानं रक्षासंज्ञमित्यर्थः । तथा च जैमिनि:
भयभीतेषु यद्दानं तद्दानं परमं मतं । रक्षात्मकं किमन्यैश्च दानैर्गजरथादिभिः॥१॥ अथोत्साहवत: पुरुषस्य यद्भवति तदाह--
खस्यासंपत्तौ न चिन्ता किंचित्कांक्षितमर्थ [प्रसूते ] दुग्धे किन्तूत्साहः ॥ १८॥ ___टीका--दुग्धे जनयति। कोऽसौ ? उत्साहः । कं? अर्थ द्रव्यं । किंविशिष्टं ? कांक्षितं वाञ्छितं । पुनरपि किंविशिष्टं ? किंचित् अपूर्व । एवं ज्ञात्वा चिन्ता न कार्याऽसम्पत्तौ । कस्य ? (स्वस्य) चित्तस्य । एतज्ज्ञात्वा चिन्ता न कार्या केवलमुत्साहः समाश्रयणीयः सोऽपि सर्व जनयति । तथा च शुक्रः-- उत्साहिनं पुरुषसिंहमुपैति लक्ष्मी
र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ॥१॥ अथ पूर्वकर्मणः फलमाह
स खलु स्वस्यैवापुण्योदयोऽपराधो वा सर्वेषु कल्पफलप्रदोऽपि स्वामी भवत्यात्मनि बन्ध्यः ॥ १९ ॥ ___टीका—खलु निश्चयेन सोऽपुण्योदयोऽन्यजन्मकर्मप्राप्तिः। यत्कि स्यात् ? बन्ध्यः फलं न प्रयच्छति। कोऽसौ ? स्वामी। कस्मिन् ? आत्मनि। अपराधो वा, कस्मिन् ? स्वामिनः कृते। यः सर्वेषु सेवकेषु कल्पवृक्षफलप्रदो भवति कल्पवृक्षवद्वाञ्छितं फलं ददाति । तथा च भागुरि :
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org