SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सदाचारसमुद्देशः । अथ दुर्जनानां सज्जनानां यादृग्वचनं तदाहकलहजननमप्रीत्युत्पादनं च दुर्जनानां धर्म (र्मो) . न सजनानां 11 28 11 टीका — दुर्जनानां यद्वचनं तत्किविशिष्टं ? कलहजननं युद्धं करोति । अप्रीत्युत्पादनं चास्नेहजननं चासज्जनानां । यत्पुनः सज्जनानां वचनं तद्धर्मे श्रेयस्करमित्यर्थः । तथा च भारविः खलो वदति तद्येन कलहः संप्रजायते । सज्जनो धर्ममाचष्टे तच्छ्रोतव्यं क्रिया तथा ॥ १ ॥ अथ यादृक्पुरुषस्य लक्ष्मीसंमुखी न भवति तत्स्वरूपमाह श्रीर्न तस्याभिमुखी यो लब्धार्थमात्रेण सन्तुष्टः ।। १५ ।। टीका - तस्य पुरुषस्य लक्ष्मीः कदाचिदपि सम्मुखी न भवति । यो भवति । किंविशिष्टः ? सन्तुष्टः । केन ? अर्थेन द्रव्येण । किंविशिष्टेन ? लव्धार्थमात्रेणापि स्तोकेनापत्यर्थः । तथा च भागुरि: २६३ tr अल्पेनापि प्रलब्धेन यो द्रव्येण प्ररुष्यति । पराङ्मुखी भवेत्तस्य लक्ष्मीर्नैवात्र संशयः ॥ १ ॥ अथ यस्य वंशवृद्धिर्न भवति तमाह Jain Education International तस्य कुतो वंशवृद्धियन प्रशमयति वैरानुबन्धम् ।। १६ ।। टीका - तस्य पुरुषस्य कुतो वंशवृद्धिः कुतः सन्तानवृद्धिः यो न प्रशमयति नोपशमं नयति । कं ? वैरानुबन्धं परमवृत्ति (?) वैरानुबन्धं । तस्मात्पुरुषेण सर्वोपायैर्वैरं नाशं नेतव्यं । तथा च शुक्रः सामादिभिरुपायैर्यो वैरं नैव प्रशामयेत् । बलवानपि तद्वंशो नाशं याति शनैः शनैः ॥ १ ॥ अथ यदुत्कृष्टं दानं सर्वेषां दानानां मध्ये भवति तदाह-भीतेष्वभयदानात्परं न दानमस्ति ।। १७ । For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy