________________
२६२
नीतिवाक्यामृते
स किं धन्वी तपस्वी वा यो रणे मरणे शरसन्धाने मनःसमाधाने च मुह्यति ॥ ११ ॥
टीका—स किं धन्वी धानुष्को । यस्य किं ? यस्य मनो मुह्यति । कस्मिन् ? शरसन्धाने शरयोजने कस्मिन् काले ? रणे संग्रामे युद्धकाले, यस्य शरसन्धाने मनो मुह्यति स धानुष्को न भवति लगुडायुध इत्यर्थः । तथा यस्य तपस्विनो मनो मुह्यति । कस्मिन् ? मन:समाधाने आत्मावलोकने । कस्मिन् ? मरणे प्राणावसाने, स तपस्वी योगी न भवतीत्यर्थः । तथा च नारदः
व्यर्था यान्ति शरा यस्य युद्ध स स्यान्न चापधृक् ।
योगिनोऽत्यन्तकालेन स्मृति (?) न च योगवान् ॥ १॥ अथ यस्य पुरुषस्यैहिकं फलं भवति तदाहकृते प्रतिकृतमकुर्वतो नैहिकफलमस्ति नामुत्रिकं च ॥१२॥
टीका-नास्ति न विद्यते । किं तत् ? फलं । किविशिष्टं ? ऐहिकमिहजन्मसम्भवं, आमुत्रिकं पारलौकिकं च । कस्य ? पुरुषस्य । किंकृतवत: ? अकुर्वतः। किं कृत् ? कृते प्रतिकृतं, यः कृते शुभे वस्तुनि केनचिच्छुभं न करोति, पापे कृते तस्यानिष्टं न करोति । तथा च हारित:----
कृते प्रतिकृतं नैव शुभं वा यदि वाशुभं ।
यः करोति च मूढात्मा तस्य लोकद्वयं न हि ॥१॥ अथ शत्रुणापि सूक्ते उक्ते यत्कर्तव्यं तदाह· शत्रुणापि सूक्तमुक्तं न दूषयितव्यम् ॥ १३॥
टीका-न दूषयितव्यं । किं तत् ? सूक्तं शुभवचनं । कथंभूतं ? उक्तं । केन ? शत्रुणापि वैरिणापि । तथा च नारद:
शत्रुणापि हि यत्प्रोक्तं सालङ्कारं सुभाषितं । न तदोषेण संयोज्यं ग्राहयं बुद्धिमता सदा ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org