________________
सदाचारसमुद्देशः।
२६१
व्याधिग्रस्तस्य यद्धैर्य तदेव परमौषधं । नरस्य धैर्यहीनस्य किमौषधशतैरपि ॥१॥ अथ महाभागः पुरुषो यथोच्यते तदाहस महाभागो यस्य न दुरपवादोपहतं जन्म ॥ ८॥
टीका–स पुरुषोऽत्र जगति महाभाग उच्यते । किं तस्य ? दुरपबादोपहतं कुत्सितदोषोपहतं जन्म न भवति । तथा च गर्गः- .
आजन्ममरणान्तं च वाच्यं यस्य न जायते । सुसूक्ष्मं स सहाभागो विज्ञेयः क्षितिमण्डले ॥१॥ अथ मन्दमतीनां यद्भवति तदाहपराधीनेष्वर्थेषु स्वोत्कर्षसंभावनं मन्दमतीनां ॥९॥
टीका-मन्दमतीनां दुष्टबुद्धीनां पुरुषाणां स्वोत्कर्षसंभावनं भवति निजाल्हादोत्कर्षो भवति । केषु ? अर्थेषु प्रयोजनेषु । किंविशिष्टेषु पराधीनेषु । यो मूर्यो भवति स आत्मीयानि तानि मन्यमानस्तुष्टिं याति । तथा च कौशिक:---
कार्येषु सिद्धयमानेषु परस्य वशगेषु च।
आत्मीयेष्विव तेष्वेव तुष्टिं याति स मन्दधीः ॥ १॥ अथ भयेषु यथा प्रकारो भवति तदाहन भयेषु विषादः प्रतीकारः किन्तु धैर्यावलम्बनं ॥ १० ॥
टीका-न भयेषु भयस्थानेषु प्रतीकार उपकारको भवति । कोऽसौ ? विषादो हृदयक्षोभः, तर्हि उपकारकः को भवति ? धैर्यावलम्बनं भवति धैर्यावस्थितिः । तथा च भृगुः ।
भयस्थाने विषादं यः कुरुते स विनश्यति । तस्य तजयं दं (?) शेयं यच्च धैर्यावलम्बनं ॥ १॥ अथ धानुष्केन तपस्विना च यत्कतयं तदाह----
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org