________________
२६०
नीतिवाक्यामृते
__टीका-नाहंकारं करोति अहं उत्तम एवं एवं संजातः वदति पापाचारो भवति स इत्थंभूतोऽहंकारोऽद्यः कं न विद्वांसं परिभवति अपि तु समस्तं जनं। तथा च भारद्वाजः
जलप्रमाणं कुमुदस्य नालं
कुलप्रमाणं पुरुषस्य शीलं । कुशीलवान् शंसति चेत्स्ववंशे
' अयेवमन्यं (१) स करोति मन्दः॥१॥ अथार्तस्य स्वरूपमाह-- आर्तः सर्वोऽपि भवति धर्मबुद्धिः ॥ ५ ॥ टीका-आर्तो व्याधिग्रस्तः सर्वोऽपि जनो धर्मबुद्धिर्भवति न च नीरोगः । तथा च शौनकः--
व्याधिग्रस्तस्य बुद्धिः स्याद्धर्मस्योपरि सर्वतः ।
भयेन धर्मराजस्य न स्वभावात्कथंचन ॥१॥ स नीरोगो यः स्वयं धर्माय समीहते ॥६॥
टीका—स पुरुषो नीरोगः कथ्यते यः स्वयमप्रेरितोऽपि केनापि. समीहते वाञ्छापरो भवति । कस्मै ? धर्माय । तथा च हारीत:
नीरोगः स परियो यः स्वयं धर्मवाञ्छकः। व्याधिग्रस्तोऽपि पापात्मा नीरोगोऽपि स रोगवान् ॥ १॥ अथ व्याधिग्रस्तस्य यदौषधं भवति तदाहव्याधिग्रस्तस्य ऋते धैर्यान्न परमौषधमस्ति ॥ ७ ॥ टीका-नास्ति न विद्यते । किं तत् ? औषधं । किंविशिष्टं ? परममुत्कृष्टं । ऋते मुक्त्वा। कस्मात् ? धैयादृढत्वात् । कस्य ? व्याधिग्रस्तस्य । व्याधिग्रस्तो यः पुरुषो भवति तस्य धैर्यमौषधं नान्यदेव । तथा च धन्वन्तरिः
१ दद्यः पुस्तके पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org