SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २६ सदाचार-समुद्देशः लोभप्रमाद विश्वासैवृहस्पतिरपि पुरुषो वध्यते वश्चयते वा॥१॥ टीका-......... ................। अविरोधेन यत्कर्तव्यं तदाह बलवताविष्ठितस्य विदेशगमनं तदनुप्रवेशो वा श्रेयानन्यथा नास्ति क्षेमोपायः॥ २ ॥ टीका-बलवताधिष्ठितस्य गृहीतस्य विदेशवासः परदेशगमनं श्रेयः श्रेयस्करं भवति । अथवा तदनुप्रवेशस्तेन सह संधानं श्रेयस्करमिति । तथा च शुक्रः बलवान् स्याद्यदाशंसस्तदा देशं परित्यजेत् । तेनैव सह सान्ध वा कुर्यान्न स्थीयतेऽन्यथा ॥१॥ अथ परदेशस्य दोषमाहविदेशवासोपहतस्य पुरुषकारः को नाम येनाविज्ञातस्वरूप: पुमान् स तस्य महानपि लघुरेव ॥ ३ ॥ टीका-विदेशवासोपहतस्य दूषितस्य पुरुषस्य को नामाहो तदिह पुरुषकारः। कस्मात् ? येन पुरुषेण न ज्ञायते स महानपि तस्याधमस्यापि लघुर्भवति नारातमाप्नोतीत्यर्थः (?) । तथा चात्रि: महानपि विदेशस्थः स परैः परिभूयते। अज्ञानमानैस्तद्देशमाहात्म्यं तस्य पूर्वकं ॥१॥ अथालब्धप्रतिष्ठितस्य यद्भवति तदाह अलब्धप्रतिष्ठितस्य निजान्वयेनाहङ्कारः कस्य न लाघवं करोति ॥४॥ १ पुरुषप्रयत्नः। २ अज्ञायमानः इति सुभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy