SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ दिवसानुष्टानसमुद्देशः । २५५ सततमुपविष्टो जठरमाध्यापयति प्रतिपद्यते च तुन्दिलतां वाचि मनसि शरीरे च ॥ ६२ ॥ अतिमात्रं खेदः पुरुषमकालेऽपि जरया योजयति ॥ ६३ ॥ नादेवं देहप्रसादं कुर्यात् ॥ ६४ ॥ देवगुरुधर्मरहिते पुंसिं नास्ति प्रत्ययः ॥ ६५ ॥ शकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषो देवः ॥ ६६ ॥ तस्यैवैतानि खलु विशेषनामान्यर्हन्नजोऽनन्तः शंभुर्बुद्धस्तमोऽन्तक इति ॥ ६७ ॥ आत्मसुखानुरोधेन कार्याय नक्तमहश्च विभजेत् ॥ ६८ ॥ कालानियमेन कार्यानुष्ठानं हि मरणसमं ॥ ६९ ॥ आत्यन्तिके कार्ये नास्त्यवसरः ॥ ७० ॥ अवश्यं कर्तव्ये कालं न यापयेत् ॥ ७१ ॥ आत्मरक्षायां कदाचिदपि न प्रमाद्येत ॥ ७२ ॥ सवत्स धेनुं प्रदक्षिणीकृत्य धर्मोपासनं यायात् ॥ ७३ ॥ अनधिकृतोऽनभिमत न राजसभां प्रविशेत् ॥ ७४ ॥ आराध्यमुत्थायाभिवादयेत् ॥ ७५ ॥ देवगुरुधर्मकार्याणि स्वयं पश्येत् ॥ ७६ ॥ कुहकाभिचार कार्मणकारिभिः सह न संगच्छेत् ॥ ७७ ॥ प्राण्युपघातेन कामक्रीडां न प्रवर्तयेत् ॥ ७८ ॥ जनन्यापि परस्त्रिया सह रहसि न तिष्ठेत् ॥ ७९ ॥ नाति क्रुद्धोऽपि मान्यमतिक्रामेदवमन्येत वा ॥ ८० ॥ १ संप्रत्ययः मु. 1 २ आत्मसुखानवरोधेन मु. । ३ नास्त्यपरो धर्मस्य मु. ४ धर्मासनं मु. । ५ कृतामंत्रितशु मु. । ६ ध्यं, समुत्थाय मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy