________________
२५४
नीतिवाक्यामृते
अतिमात्रभोजी देहमग्निं च विधुरयति ॥ ४५ ॥ दीप्तो वन्हिर्लघुभोजानाद्वलं क्षपयति ॥ ४६॥ अत्यशितुर्दुःखेनानपरिणामः ॥४७॥ श्रमार्तस्य पानं भोजनं च ज्वराय छर्दये वा ॥ ४८ ।।
न जिहत्सुर्न प्रस्रोतुमिच्छर्नासमञ्जसमनाश्च नानपनीय पिपासोद्रेकमश्नीयात् ॥ ४९ ॥ भुक्त्वा व्यायामव्यवायौ सद्यो व्यापत्तिकारणं ॥ ५० ॥ आजन्मसात्म्यं विषमपि पथ्यं ॥ ५१ ॥ असात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यमप्यपथ्यं ॥५२॥ सर्व बलवतः पथ्यमिति न कालकूटं सेवेत ॥ ५३ ॥ सुशिक्षितोऽपि विषतंत्रज्ञो नियत एव कदाचिद्विपात्॥५४॥ संविभज्यातिथिष्वाश्रितेषु च स्वयभाहरेत् ॥ ५५ ॥ देवान् गुरून् धम चोपचरन्न व्याकुलमतिः स्यात् ।। ५६ ॥ व्याक्षेपभूमनोनिरोधो मन्दयति सर्वाण्यपीन्द्रियाणि ॥५७॥ स्वच्छन्दवृत्तिः पुरुषाणां परमं रसायनं ॥ ५८ ॥
यथाकामसमीहांनाः किल काननेषु करिणो न भवन्त्यास्पद व्याधीनां ।। ५९ ॥
सततं सेव्यमाने द्वे एव वस्तुनी सुखाय सरसः स्वैरालाप स्ताम्बूलभक्षणं च ।। ६० ॥ चियोजानुडयति रसवाहिनीः स्नसाः ॥ ६१ ॥
१ सात्म्येन मु. । २ मिति मत्वा मु.। ३ खादेत् मु.। ४ नाकुलमतिः मु. । ५ समीहाः मु. । ६ सुखायेति मु. पुस्तके नास्ति । ७ रसैष्वैरालाप: ताबूलं च मू.। ८ चिरमूर्ध्वस्थो मु.। ९ वाहिनीनसाः मू. पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org