SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ दिवसानुष्ठानसमुद्देशः । २५३ wow... -..-- --.-'- - जलचरस्येव तत्स्नानं यत्र न सन्ति देवगुरुधर्मोपासनानिा२६। प्रादुर्भवत्क्षुत्पिपासोऽभ्यङ्गस्नानं कुर्यात् ॥ २७ ॥ आतपसंतप्तस्य जलावगाहो दृग्मान्द्यं शिरोव्यथां च करोति ॥ २८॥ बुभुक्षाकालो भोजनकालः ॥ २९ ॥ अक्षुधितेनामृतमप्युपभुक्तं च भवति विषं ॥ ३० ॥ जठराग्निं वज्राग्निं कुर्वन्नाहारोंदौ सदैव वज्रकं बलयेत्॥३१॥ निरन्नस्य सर्व द्रवद्रव्यमग्निं नाशयति ॥ ३२ ॥ अतिश्रमपिपासोपशान्तौ पेयायाः परं कारणमस्ति ॥३३॥ घृताधरोत्तरभुञ्जानोऽग्निं दृष्टिं च लभते ॥ ३४ ॥ सकृद्भरि नीरोपयोगो वन्हिमवसादयति ॥ ३५ ॥ क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति ॥ ३६॥ विध्याते वन्हौ किं नामेन्धनं कुर्यात् ॥ ३७॥ यो मितं भुक्ते स बहुँ भुक्ते ॥ ३८ ॥ अप्रमितमसुखं विरुद्धमपरीक्षितमसाधुपाकमतीतरसमकालं चान्नं नानुभवेत् ।। ३९ ।। पेलीभुजमननुकूलं क्षुधितमतिरं च न झुक्तिसमये सन्निधापयेत् ॥ ४०॥ गृहीतग्रासेषु सहभोजिष्वात्मनः परिवेषयेत् ॥ ४१ ।। तथा भुञ्जीत यथासायमन्येाच न विपद्यते वन्हिः ॥४२॥ न भुक्तिपरिमाणे सिद्धान्तोऽस्ति ।। ४३ ॥ वन्ह्यभिलाषायत्तं हि भोजनं ॥ ४४ ।। १ न कुर्यात् मु.। २ तप्तस्य म्. । ३ शिरोभितापं मु.। ४ भोजनादौ मु.। ५ अग्निनाशयति मु.। ६ पेयायः परं कारणम सिधृताधरोत्तरं भुजानो मु.। ७ प्रभूनं मु. । ८ फल्गुभुज. मु. । ९ विपद्येत मु. । १० च मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy