SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २९६ नीतिवाक्यामृते राज्ञां चतुरंगवलाभिवृद्धये भूयांसो भक्तग्रामाः ॥ २२ ॥ टीका--राज्ञो भूपस्य चतुरंगबलाभिवृद्धये भवन्ति चतुरङ्गं यद्बलं हस्त्यश्वरथपदातिसझं वृद्धिहेतवो वृद्धिकारणानि एते भक्तग्रामाः। येषु भक्तं धान्यं उत्पद्यते । किंविशिष्टास्ते ? भूयांसो बहवः कस्यचित्ते न देयाः । तथा च शुक्रः चतुरंगबलं येषु भक्तग्रामेषु तृप्यति । वृद्धिं याति न देयास्त कस्यचित्सस्यदा यतः॥१॥ अथ राज्ञः कोशहेतुर्यद्भवति तदाहसुमहच्च गोमण्डलं हिरण्याय युक्तं शुल्कं कोशवृद्धिहेतुः॥२३॥ टीका-यस्य राज्ञो देशे गोमण्डलं प्रचुरगावो भवन्ति । कस्मै ? द्रव्याय हिरण्याय भवति तद्भू(प)तेर्युक्तं तथा शुल्कं च शुल्कशब्देन वणिग्जनस्य पण्यस्य युक्तं यदर्थग्रहणं तच्छुल्कमुच्यते तेन कोशो वृद्धि याति । तथा च गुरु: प्रभूता धेनवो यस्य राष्ट्र भूपस्य सर्वदा। हिरण्याय तथा शुल्कं युक्तं कोशाभिवृद्धये ॥१॥ देवद्विजप्रेदेया गोरुतप्रमाणा भूमितुरादातुश्च सुखनिवाहा ॥ २४ ॥ ___टीका-देवद्विजानां विबुधब्राह्मणानां या देया भूमिः सा किंप्रमाणा? गोरुतप्रमाणा गोरुतं गोशब्दो यावन्मात्रायां भूमौ श्रूयते तावन्मात्रा देया। ननु कस्मादभ्यधिका न दीयते यतस्तावन्मात्रा दत्ता भवति सुखावहा आदातुश्च प्रतिग्रहयुक्तस्य स्तोकं मत्वा न कचिल्लोपं नयति । तथा च गौतमः देवद्विजप्रदत्ता भूः प्रदत्ता लोपं नामुयात् । दातुश्च ब्राह्मणस्यापि शुभा गोशब्दमात्रका ॥ १॥ १ वृद्धिहेतव इत्यपि पाठः । २ 'प्रभूता लोपमाप्नुयात् ' इति सुभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy