________________
जनपदसमुद्देशः ।
मर्यादातिक्रमो यस्यां भूमौ राज्ञः प्रजायते । समृद्धापि च सा द्रव्यैर्जायतेऽरण्यसन्निभा ॥ १ ॥ अथ प्रजानां वर्धनोपायो यथा भवति तदाह
क्षीणजन सम्भावनं तृणशलाकाया अपि स्वयमग्रहः कदाचित्किंचिदुपजीवनमिति परमः प्रजानां वर्धनोपायः ॥ २० ॥
टीका - वर्धनोपायः वृद्धिकारी उपायः । कासां : प्रजानां । क्षीणजनसम्भावनं तावत् क्षीणा दुर्बलो यः कुटुम्बी, सम्भावनं उद्धारकदानं प्रतिशतकवृद्ध्या । तथाग्रहोऽग्रहणं कस्यास्तृणशलाकाया अपि । आस्तां तावत्, कदाचित्कस्मिन् काले किंचिदुपजीवनं दण्डग्रहं स्तोकं ग्राहयं येन स्वयमुपजीवनं निर्वाहणं भवति इत्यनेन त्रिविधेन परम उत्कृष्टो वर्द्धनोपायः प्रजानामिति । तथा च नारदः
चिन्तनं क्षणवृत्तानां स्वग्राहस्य विवर्जनम् | युक्तदण्डं च लोकानां परमं वृद्धिकारणं ॥ १ ॥ अथ न्यायेन रक्षिता पिण्ठा राज्ञो यादृग्भवति तदाह
१९५
न्यायेन रक्षिता पण्यपुटभेदिनी पिण्ठा राज्ञां कामधेनुः २१ टीका - कामधेनुर्भवति वाञ्छितप्रदात्री भवति । कासौ ? पिण्ठा शुल्कस्थानं। किंविशिष्टा पिण्ठा ? पण्यपुटभेदिनी पण्यानि वणिग्जनानां कुंकुमहिंगुवस्त्रादीनि क्रयाणकानि तेषां पुटाः स्थानानि भिद्यन्ते यस्यां सा पण्यपुटभेदिनी । किंविशिष्टा सती स्यात्कामधेनु: : ( रक्षिता) परिपालिता सती । केन कृत्वा ? न्यायेन नीत्या, किंविशिष्टं रक्षणं तस्या अधिकशुल्काग्रहणं तथा चौरादिभिर्यद्गृह्यते तस्यां तत्स्वयमेत्र दातव्यं । तथा च शुक्रःग्राह्यं नैवाधिकं शुल्कं चौरैर्यश्चाहृतं भवेत् । पिण्ठायां भूभुजा देयं वणिजां तत्स्वकोशतः ॥ १ ॥ अथ राज्ञां चतुरंगबलहेतवो ये भवन्ति तानाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org