SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते ____टीका-परिपक्कसस्यकाले योऽसौ सेनाप्रचारः । स कि करोति ? दुर्भिक्षं आवहति-तस्मिन् देशे दुर्भिक्षं जनयति । एतदुक्तं भवति, पक्कमानेन सकस्तै श्रुवतिः कस्मात् (?) तत्र परदेशे सैन्यप्रचारः कर्तव्यः न स्वदेशे। तथा च जैमिनिः सस्यानां परिपक्वानां समये यो महीपतिः। सैन्यं प्रचारयेत्तच्च दुर्भिक्षं प्रकरोति सः॥१॥ अथ प्रजानां पीडनेन कोशस्य यद्भवति तदाहसर्वबाधा प्रजानां कोशं पीडयति ॥ १७॥ टीका-पीडयति रिक्ततां नयति । कं ? कोशं, भाण्डागारं । काः पीडयंति? सर्वबाधाः सर्वपीडनानि । कासां ? प्रजानां यानि पीडनानि तैर्भूपाले (?) भांडागारेऽर्थो न प्रविशति । तथा गर्ग: प्रजानां पीडनाद्वित्तं न प्रभूतं प्रजायते । भूपतीनां ततो ग्राह्यं प्रभूतं येन तद्भवेत् ॥१॥ अथ स्वयं दत्तस्य राज्ञा यत्कर्तव्यं तदाहदत्तपरिहारमनुगृह्णीयात् ॥ १८॥ टीका---अनुगृह्णीयात् कथं दत्तपरिहारं यथाँ भवति येऽकराः कृतास्तेषां करो न ग्राह्यः । तथा च नारदः अकरा ये कृताः पूर्व तेषां ग्राह्यः करो न हि । निजवाक्यप्रतिष्ठाथै भूभुजा कीर्तिमिच्छता ॥१॥ अथ मर्यादातिक्रमेण यादग्भूमिर्भवति तदाहमर्यादातिक्रमेण फलवत्यपि भूभिर्भवत्यरण्यानी ॥ १९॥ टीका--अरण्यानी भवति अरण्यं भवति । कासौ भूमि ? किं विशिष्टापि ? फलवत्यपि समृद्धापि । केन कृत्वा ? मर्यादातिक्रमेण व्यवहारलंवनेन । तथा च गुरु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy