SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ जनपदसमुद्देशः। १९३ هي حامية مزمه ی بیدی۔ परदेशं गतं लोकं निजदेशे समानयेत् । भुक्तपूर्वमभुक्तं वा सर्वदैव महीपतिः ॥१॥ अथ स्वल्पोऽप्युपद्रवो यत् करोति तदाहस्वल्पोऽप्यादायेषु प्रजोपद्रवो महान्तमर्थं नाशयति ॥ १४ ॥ टीका-नाशयति नाशं नयति । किं तत्? अर्थ । किंविशिष्टं ? महान्तं प्रभूतमपि । कोऽसौ ? उपद्रवः अन्यायेनार्थग्रहणं । किंविशिष्टं (ट:)? स्वल्पमपि (पोऽपि )। कासां ? प्रजानां । केषु ? आदायेषु आदायस्थानेषु आगतिस्थानेषु । स्वल्पोऽपि योऽसा उपद्रवोऽअन्यायकरणं प्रभुतस्यार्थस्य नाशं करोति । कथं न तत्र स्थाने व्यवहारेणागच्छति ततः किं न भवति । तथा च गुरु: शुल्कस्थानेषु योऽन्यायः स्वल्पोऽपि च प्रवर्तते । तत्र नागच्छते कश्चिद्यवहारी कथंचन ॥१॥ अथ क्षीरिषु कणिशेषु यद्भवति तदाहक्षीरिषु कणिशेषु सिद्धादायो जनपदमुद्वासयति ॥ १५ ॥ टीका-उद्वासयति देशान्तरं प्रेषयति । कोऽसौ ? सिद्धादायः परिपच्यमानग्रहणं। कं ? जनपदं। केषु, ? क्षीरिषु कणिशेषु क्षीरिणः कणशा यवगोधूमादयस्तेषां यद्ग्रहणं राजा करोति । एतदुक्तं भवति, अपरिपक्केषु यवगोधूमेषु पक्का (१) यो दण्डस्तस्य ग्रहणं स्वेच्छया करोति तज्जनपदमुद्वासयति । तथा च शुक्रः क्षीरयुक्तानि धान्यानि यो गृह्णाति महीपतिः। कर्षकाराणां करोत्यत्र विदेशगमनं हि सः॥१॥ अथ लवनकाले यस्य सेनाप्रचारो भवति तस्मिन् देशे यस्यात्तदाहलवनकाले सेनाप्रचारो दुर्भिक्षमावहति ॥ १६ ॥ १ गम्ल इति परस्मैपदिधातुस्तस्य आत्मनेपदित्वं चिंत्यम् । नीति०-१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy