________________
१९२
नीतिवाक्यामृतेतत्र सदा दुर्भिक्षं यत्र जलदर्जलेन सस्यनिष्पतिरकृष्टभूमिकश्चारंभः ॥१०॥
क्षत्रियप्राया हि ग्रामाः स्वल्पास्वपि बाधासु प्रतियुद्धयन्ते ॥ ११ ॥
ति । कासु ? आबाधासु पीडासु परिभवजासु । किंविशिष्टासु ? स्वल्पास्वपि, अपि क्षात्रा अर्थवसात् । तथा च शुक्रः
वसन्ति क्षत्रिया येषु ग्रामेष्वतिनिरर्गलाः। स्वल्पापराधतोऽप्येव तेषु युद्धं न शाम्यति ॥ १ ॥ अथ द्विजलोकस्य स्वरूपमाहम्रियमाणोऽपि द्विजलोको न खलु सान्त्वेन सिद्धमप्यर्थ प्रयच्छति ॥१२॥
टीका--योऽसौ द्विजलोको ब्राह्मणजनः स म्रियमाणोऽपि प्राणा त्ययेऽपि योऽर्थो गृहीतस्तं न प्रयच्छति। केन ? सान्त्वेन साम्ना यावद्दण्डो न दर्शितः । तथा च शुक्रः
ब्राह्मणैक्षितो योऽर्थो न स सान्त्वेन लभ्यते । यावन्न दण्डपारुष्यं तेषां च क्रियते नृपैः ॥१॥ अथ राजा स्वदेशोत्थस्य जनस्य परदेशं गतस्य यत्कियत तदाह
खभूमिकं भुतपुर्वमभुक्तं वा जनपदं स्वदेशाभिमुखं दानमानाभ्यां परदेशादावहेत् वासयेच्च ।। १३॥
टीका-आवहेत् आनयेत् । कं ? जनपदं । कस्मात् ? परदेशात् । वासयेच्च । कं? जनपदं लोकं । किंविशिष्टं ? भुक्तपूर्व यं पुरा भुक्तं गृहीतकरं तं यदि परदेशगतं भवति अभुक्तं वा आनयेत् आत्मीयदेशीयं त्वा (यत्वात्) यस्य करो न गृहीतस्तमप्यानयेत् । कथं स्वदेशाभिमुखो यथा भवति । काभ्यां आनयेत् ? दानमानाभ्यां । तथा च शुक्रः--
१ दुर्भिक्षमेव मु. । २ जलदेन, जलेनेति शब्दो नास्ति मु। ३ प्रयच्छति सिद्धमध्यर्थं मू० । ४ भूतपूर्वमभूतपूर्व वा ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org