________________
१८ अमात्य - समुद्देशः ।
चतुरंगयुतोऽपि नानमात्यो राजास्ति किं पुनेरन्यः ॥ १ ॥ नैकस्य कार्यसिद्धिरस्ति ॥ २ ॥
नद्येकचक्रं परिभ्रमति ॥ ३ ॥
किमवतः सेन्धनोऽपि वह्निर्ज्वलति ॥ ४॥ स्वकर्मोत्कर्षापकर्षयोदनमानाभ्यां सम्पत्तिविपत्ती येषां तेऽ
मात्याः ।। ५ ।
आयो व्ययः स्वामिरक्षा तंत्र पोषणं चामात्यानामधिकारः ॥ ६॥
आयव्ययमुखयोर्मु निकमण्डलुर्निदर्शनमेव ॥ ७ ॥ आयो द्रव्यस्योत्पत्तिमुखम् ॥ ८ ॥
यथास्वामिशासनमर्थस्य विनियोगो व्ययः ॥ ९ ॥ आयमनालोच्य व्ययमानो वैश्रवणोऽप्यवश्यं श्रमणायत एव ।। १ • 11
राज्ञः शरीरं धर्मः कलत्रमपत्यानि च स्वामिशब्दार्थाः ॥ ११ ॥ तंत्रं चतुरङ्गबलम् ॥ १२ ॥
१ पुनरेक: मु-पुस्तके । २ अस्तिः मु-पुस्तके नास्ति | ३ किं प्रवातः मुपुस्तके | ४ कर्षाभ्यां मु-पुस्तके | ५ यथा पृथुबुनोदरोऽल्पग्रीवो विस्तृतमुखश्च मुनिजनानां कमंडलुजेलस्य ग्रहणं त्वरया करोति विसर्गे च सूक्ष्मनलिकारूपेण तेन मुखेन शनैः शनैर्जलं विसृजति तथा महता प्रमाणेनायं कृत्वा अल्पप्रमाणेन व्ययः कार्यः इत्यर्थः । ६ अवश्यं एवेति च मु-पुस्तके नास्ति । श्रमणायते श्रमणो भिक्षुस्तद्वदाचरति दरिद्रो भवतीत्यर्थः । ७ वाक्यं राज्ञः मु-पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org