SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८४ नीतिवाक्यामृते अर्थिनामुपायनमप्रतिकुर्वाणो ने गृह्णीयात् ॥ ५५ ॥ आगन्तुकैरसहनैश्च सह नर्म न कुर्यात् ।। ५६ ॥ पूज्यैः सह नाधिरुह्य वदेत् ॥ ५७ ॥ भृत्यमशक्यमप्रयोजनं च जनं नाशया क्लेशयेत् ॥ ५८ ॥ पुरुषो हि न पुरुषस्य दासः किन्तु धनस्य ॥ ५९॥ को नाम न धनहीनो भवति लघुः ॥ ६० ॥ पराधीनेषु नास्ति शर्मसम्पत्तिः ॥ ६१ ॥ सर्वधनेषु विद्यैव प्रधानम(न)पहार्यत्वात् सहानुयायित्वाच्च ६२ सरित्समुद्रमिव नीचमुपगतापि विद्या दुर्दर्शमपि राजानं संगमयति परन्तु भाग्यानां भवति व्यापारः ॥ ६३ ॥ सा खलु विद्या विदुषां कामधेनुर्यतो भवति समस्तजगतः स्थितिज्ञानम् ॥ ६४ ॥ लोकव्यवहारज्ञो हि सर्वज्ञोऽन्यस्तु प्राज्ञोऽप्यवज्ञायते एव ६५ ते खलु प्रज्ञापारमिताः पुरुषा ये कुर्वन्ति परेषां प्रतिबोधनम् ॥ ६६ ॥ अनुपयोगिना महतापि किं जलधिजलेन ॥.६७ ॥ इति स्वामि-समुद्देशः । - १ अप्रतिगृह्णीयात् मु-पुस्तके । २ सदाधिरुह्य न वदेत् मु-पुस्तके । ३ भृत्यमशक्यप्रयोजनं नाशया० मु-पुस्तके । ४ सूत्रमिदं मु-पुस्तके नास्ति । ५ दुर्दर्शनं मु-पुस्तके । ६ भवतिः मु-पुस्तके नास्ति । ७ स्थितिपरिज्ञानं मु-पुस्तके । ८ मूखोऽपि सर्वज्ञो मु-पुस्तके ९ प्रज्ञावारग्ताः मू-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy