SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ स्वामिस मुद्देशः। १८३ मातुः स्तनमपि लुनंति लंचोपजीविनः ॥४३॥ लंचेन कार्यकारिभिरुभ्रवत्स्वामी विक्रीयते ॥४४॥ प्रासाद विध्वंसनेन लोहकीलकलाभ इव लंचेन राज्ञोऽर्थलाभ: ॥४५॥ राज्ञो लंचेन कार्यकरणं कस्य नाम कल्याणम् ।। ४६ ॥ देवतापि यदि चोरेषु मिलति कुतःप्रजानां कुशलम् ॥४७॥ लंचेनार्थोपायं दर्शयन् देशे कोशं मित्रं तंत्रं च भक्षयति४८ राज्ञोऽन्यायकरणं समुद्रस्य मर्यादालंघनं, आदित्यस्य तम:पोषणं, मातुः स्वापत्यभक्षणमिति कलिकाल विजूंभितानि ॥४९॥ राजा कालस्य कारणं ॥ ५० ॥ न्यायतः परिपालिकें राशि प्रजानां कामदुधा भवन्ति सर्वा दिशः, काले च वर्षति मघवान्, सर्वाश्चेतयःप्रशाम्यन्ति ॥५१॥ राजानमनुवर्तन्ते सर्वेऽपि लोकपालास्तेन मध्यममप्युत्तम लोकपालं राजानमाहुः ॥५२॥ __अव्यसनेन क्षीणधनान् मूलधनप्रदानेन कुटुंबिनः प्रतिसंभावयेत् ।। ५३ ॥ राज्ञो हि समुद्रावधिर्मही स्वकुटुंब कलत्राणि तुं वंशवर्धनं क्षेत्राणि ॥ ५४॥ १ लुञ्चन्ति मु-पुस्तके । २ कार्याभिरुद्धः स्वामी मु-पुस्तके । ३ प्रसादनेन मूपुस्तके । ४ लोभः मू-पुस्तके। ५ कार्यकरणे मू-पुस्तके। ६ चौराणां मु-पुस्तके । ७ राज्ञा, लंघनमिव, पोषणमिव भक्षणमिव मु-पुस्तके । ८ शोषणं मू-पुस्तके । ९ इति शब्दो मु-पुस्तके नास्ति। १० विशेषस्य कालस्य मु-पुस्तके । ११ ' भवन्ति सर्वा ' मु-पुस्तके नास्ति । १२ 'कुटुम्बिनः प्रति ' मु-पुस्तके नास्ति । १३ तुर्नास्ति मु-पुस्तके । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy