SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८२ नीतिवाक्यामृते राजाज्ञावरुद्धस्य तदाज्ञाप्रतिदाने उत्तमः साहसदण्डः ॥२८॥ सम्बन्धाभावे तदातुश्च ॥ २९ ॥ परमर्मस्पर्शकरमश्रद्धेयमसत्यमतिमात्रं च न भाषेत ॥३०॥ वेषमाचारं वानभिज्ञातं न भजेत् ॥ ३१ ॥ प्रभो विकारिणि को नाम न विकुरुते ॥ ३२ ॥ अधर्मपरे राज्ञि को नाम नाधर्मपरः ॥ ३३ ॥ राज्ञावज्ञातो यः स सर्वैरवज्ञायते ॥ ३४ ॥ पूजितं हि पूजयन्ति लोकाः ॥ ३५ ॥ प्रजाकार्य स्वयमेव पश्येत् ॥ ३६॥ यथावसरमप्रतीहारसंग द्वारं कारयेत् ॥ ३७॥ दुर्दों हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यतेऽतिसंधीयते च द्विषद्भिः॥ ३८॥ वैद्येषु श्रीमतां व्याधिवर्धनादिव नियोगिषु भर्तुर्व्यसनवर्धनादपरो नास्ति जीवनोपायः ॥ ३९ ॥ कार्यार्थिनो लंचो लुञ्चति ॥ ४० ॥ निशाचराणां भूतबलिं न कुर्यात् ॥ ४१ ॥ लंचो हि सर्वपातकानामागमनद्वारम् ॥ ४२ ॥ १ दानेन मु-पुस्तके । २ उत्तमसाहसो दण्ड : मु-पुस्तके । ३ दण्डयस्य अपराधसम्बन्धाभावे । ४ वानभिज्ञातु मु-पुस्तके । “वेषं समाचार वानभिजानन तं भजेत् ' मु-पुस्तके । ५ प्रभवो विकारिणो नाम न विकुरुते मुपुस्तके । ६ सर्वेरप्यवज्ञायते मु--पुस्तके । ७ ' पूजितं हि ' लि-मू-पुस्तके नास्ति । ८ यथावसरमसंगद्वारं मु-पुस्तके । ९ कार्यविपर्यास मु-पुस्तके । १० कायार्तिनः लंचढंच मू-पुस्तके । ११ लंचचरां मुद्रित-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy