SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ स्वामिसमुद्देशः। १८१ किं तेन स्वामिप्रसादेन यो न पूरयत्याशाम् ॥ १३ ॥ क्षुद्रपरिषत्कः सर्पवानाश्रय इव न कस्यापि सेव्यः ॥१४॥ अकृतज्ञस्य व्यसनेषु न सन्ति सहायाः ॥ १५ ॥ अविशेषज्ञः शिष्टै श्रीयते ॥ १६ ॥ आत्मम्भरिः कलत्रेणापि त्यज्यते ।। १७॥ अनुत्साहः सर्वव्यसनानामागमनद्वारम् ॥१८॥ शौर्यममर्षः शीघ्रकारिता तत्कर्मप्रवीणत्वमित्युत्साहगुणाः ॥ १९ ॥ अन्यायप्रवृत्तिने चिरं सम्पदः ॥ २०॥ यत्किचनकारी स्वैः परैर्वा हन्यते ॥ २१ ॥ आज्ञाफलमैश्वर्यम् ॥ २२ ॥ दत्तभुक्तफलं धनम् ।। २३ ॥ .. रतिपुत्रफला दाराः ॥ २४ ॥ राजाज्ञा हि सर्वेषामलंयः प्राकार ॥२५॥ आज्ञाभंगकारिणं सुतमपि न सहेत ॥ २६ ॥ . कस्तस्य चित्रगतस्य च राज्ञो विशेषो यस्याज्ञो नास्ति ।२७। १ परिष्वक्तः मु-पुस्तके । २ केवलं स्वोदरपूरकः । ३ तत्तत्कर्म० मु-पुस्तके। ४ अन्यायप्रवृत्तेनं चिरं सम्पदो भवन्ति मु-पुस्तके । ५ परैः स्वैवी मु-पुस्तके । न्याय्यमन्याय्यं हितमहितं वा यत्किचित्करोतीति यत्किंचनकारी। ६-७ सूत्रद्वयं मुद्रितपुस्तके नास्ति । ८ मलंध्या मु-पुस्तके । ९ शब्दोयं मु-पुस्तके नास्ति । १० पुत्रमपि मु-पुस्तके । ११-१२ चः मु-पुस्तके नास्ति आज्ञाशब्दोऽपि । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy