SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७ स्वामि - समुद्देशः । 0:54 धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान्नयानुगतवृत्तिश्व स्वामी ॥ १ ॥ कोपप्रसादयोः स्वतंत्रता आत्मातिशयवर्धनं वा यस्यास्ति स स्वामी ॥ २ ॥ स्वामिमूलाः सर्वाः प्रकृतयो भवन्त्यभिप्रेतप्रयोजना नाखा - मिकाः ॥ ३ ॥ अस्वामिकाः प्रकृतयः समृद्धा अपि निस्तरीतुं न शक्नुवन्ति ४ । अमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्नः ।। ५ ।। असत्यवादिनो विनश्यन्ति सर्वे गुणाः || ६ || वंचकेषु न परिजनो नापि चिरमायुः ॥ ७ ॥ स प्रियो लोकानां यो ददात्यर्थम् ॥ ८ ॥ स दाता महान् यस्य नास्ति प्रत्याशोपहतं चेतः ॥ ९ ॥ प्रत्युपकर्तुरुपकारः सवृद्धिकोऽर्थन्यास इव ॥ १० ॥ तज्जन्मान्तरेषु न केषामृणं येषामप्रत्युपकारं परार्थानुभवनम् ॥ ११ ॥ किं तया गवा या न क्षरति क्षीरं नै गर्भिणी वा ॥ १२ ॥ ( १ महापुरुष मु-पुस्तके । २ सर्वेऽपि मु-पुस्तके । ३ वंचकेषु न धनं न परिजनो न चिरमायुः मु-पुस्तके पाठः । ४ कारि मु-पुस्तके | ५ न गर्भिणी वा इति पदं मु-पुस्तके नास्ति । 2. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy