SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १७८ नीतिवाक्यामृते अतीवालुं स्त्रियस्त्यजन्ति निम्नन्ति वा पुरुषं ॥१५॥ परपरिग्रहांभिगमः कन्यादृषणं वा साहसं दशमुखदाण्डिक्यविनाशहेतुः सुप्रसिद्धमेव ॥१६॥ यत्र नाहमित्यध्यवसायः साहसं ॥ १७॥ अर्थदूषणः कुवेरोऽपि भवति भिक्षाभाजनं ॥ १८ ॥ अतिव्ययोऽपात्रव्ययश्चार्थस्य दूषणं ॥ १९॥ हर्षामाभ्यामकारणं तृणाङ्कुरमपि नोपहन्यात किं पुनमनुष्यं ॥ २० ॥ श्रूयते हि निष्कारणं भूतावमानिनौ वातापिरिल्विलश्चासुरापगस्त्यस्यात्यासादनाद्विनेशतुरिति ॥ २१ ॥ यथादोष कोटिरपि गृहीता न दुःखायते ॥ २२ ॥ अन्यायेन तृणशलाकापि गृहीता प्रजा भेदयति ॥ २३ ॥ तरुच्छेदेन फलोपभोगः सकृदेव ॥ २४ ॥ प्रजाविभवो हि स्वामिनो द्वितीयं भाण्डागारमतो युक्तितस्तमुपयुञ्जीत ॥ २५ ॥ रज्ञा परिगृहीतं तृणमपि [गृहीतं परेण ] काञ्चनीभवति जायते च पूर्वसंचितस्यार्थस्यापहायः ॥ २६ ॥ १ परिप्रहादिभिगमः मू-पुस्तके । २ साहसं सुप्रसिद्धमेव दशमुखदाण्डिक्यविनाशहेतुः गु-पुस्तके पाठः । ३ अर्थदूषणं मु-पुस्तके । ४ अकारणं परं मु-पुस्तके नास्ति । ५ नोपहन्यते मु-पुस्तके । ६ खेदयति मु-पुस्तके । ७ तमपि भुञ्जीत मु-पुस्तके । ८ राजपरिगृहीतं तृणमपि काञ्चनीभवति मुपुस्तके इत्येव सूत्रं । ९ कंसस्थः पाठः पुस्तकस्थ एव । नेदं सूत्रं मु-पुस्तके .अस्य सूत्रस्य स्थाने 'येन हृदयसन्तापो जायते तद्वचनं हि वाक्पारुष्यं'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy