SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १६ व्यसन-समुद्देशः। व्यस्थतीत्यावर्तयत्येनं पुरुषं श्रेयस इति व्यसनं ॥१॥ व्यसनं द्विविधं सहजमाहार्य च ॥ २॥ सहजं व्यसनं धर्मसंभूताद्भुताभ्युदयहेतुभिरधर्मजनितमहाप्रत्यवायप्रतिपादनैरुपाख्यानर्योगपुरुषैश्च प्रशमयेत् ॥ ३॥ शिष्टसंसर्गदुर्जनासंसर्गाभ्यां पुरातनमहापुरुषचरितोत्थिताभिश्च कथाभिराहार्य व्यसनं प्रतिबन्नीयात् ॥ ४॥ स्त्रियमतिभजमाने भवत्यवश्यं तृतीया प्रेकृतिः ॥ ५॥ सौम्यधातुक्षयः सर्वधातुक्षयं करोति ॥ ६॥ पानशौण्डश्चित्तभ्रमान्मातरमप्यभिगच्छति ॥ ७ ॥ मृगयासक्तिः स्तेनव्यालद्विपदायादानामामिषं पुरुषं करोति ॥८॥ नास्त्यकृत्यं द्यूतासक्तस्य मातर्यपि हि मृतायां दीव्यत्येव कितवः ॥९॥ पिशुनः सर्वेषामविश्वासं जनयति ॥ १० ॥ दिवास्वापः सुप्तव्याधिव्यालानामुत्थापनदंडः सकलकार्यान्तरायश्च ॥ ११ ॥ न परपरिवादात्परं सर्वविद्वेषणभेषजमस्ति ॥ १२ ॥ तौर्यत्रिकासक्तिः के नाम न प्राणार्थमानैर्विजयते ॥ १३ ॥ मंषोद्यानविधायकमप्यनर्थ विरमयति ॥ १४ ॥ १ युक्तिमद्भिः पुरुषः। २ षढः । ३ सक्तिस्त्विभव्याल. मु-पुस्तके । ४ पुरुषमिति मु-पुस्तके नास्ति । ५ अस्य सूत्रस्य स्थाने इदं सूत्र मु-पुस्तके 'वृथाढया नाविधाय कमप्यनर्थ विरमन्त्यतीवेयालवः'। नीति०-१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy