________________
दूतसमुद्देशः ।
स्वयमशक्तः परेणोक्तमनिष्टं सहेत ॥ १० ॥ गुरुषु स्वामिषु वा परिवादे नास्ति क्षान्तिः ॥ ११ ॥ स्थित्वापि यास्यतोऽवस्थापनं केवलमपक्षयहेतुः ॥ १२ ॥ वीरपुरुषपरिवारितः शूरपुरुषान्तरितान् परद्रुतान् पश्येत् | १३ | श्रूयते हि किल चाणक्यस्तीक्ष्णदूतप्रयोगेणैकं नन्दं जघा - नेति ।। १४ ।।
शत्रुप्रहितं शासनमुपायनं च स्वैरपरीक्षितं नोपाददीत || १५ || श्रूयते हि स्पर्शविषवासिताद्भुतवस्त्रोपायनेन करहाटपतिः कैटभो वसुनामानं राजानमाशीविषविषधरोपेतरत्नकरंडकप्राभृतेन च करवालः करालं जघानेति ॥ १६ ॥
१७१
महत्यपकारेऽपि न दूतमुपहन्यात् ।। १७ ।। उद्धृतेष्वपि शस्त्रेषु दूतमुखा वै राजानः ॥ १८ ॥ तेषामन्त्यावसायिनोऽप्यवध्याः किमङ्ग ! पुनर्ब्राह्मणः ।। १९ ।। वध्यभावाद्दूताः सर्वमेव जल्पन्ति ॥ २० ॥ कः सुधीर्दृतवचनात्परोत्कर्षं स्वात्मापकर्षं च मन्येत ।। २१ ।। तदाशयरहस्यपरिज्ञानार्थं परदूतः स्त्रीभिरुभयवेतनैस्तद्गुणाचारशीलानुवर्तिभिर्वा प्रणिधातव्यः ।। २२ ।।
चत्वारि वेष्टनानि खङ्गमुद्रा च प्रतिपक्षलेखानाम् ।। २३ ।। इति दूत - समुद्देशः ।
१ परवादे मु. । २ महत्यपकारे दूतमपि हन्येत मु-पुस्तके |--- ३ चाण्डाला अपि दूतत्वेनागताश्चेदवध्याः । ४ अवध्यभावाद्दताः इति मू-पुस्तके | वध्यभावादिति मु-पुस्तके | ५ सर्वत्रमेव इति पाठः मु-पुस्तके | ६ वचनात् खानात् मु-पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org