SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३ दूतसमुद्देशः। अनासन्नेष्वर्थेषु दूतो मंत्री ॥१॥ स्वामिभक्तिरव्यसनिता दाक्ष्यं शुचित्वममूर्खता प्रागल्भ्यं प्रतिभावत्वं शान्तिः परमर्मवेदित्वं जातिश्च प्रथमेति दूतगुणाः ॥२॥ स च त्रिविधो निःसृष्टॉर्थः परिमितार्थः शासनहरश्चेति ॥३॥ यत्कृतौ स्वामिनः सन्धिविग्रही प्रमाणं स निःसृष्टार्थो यथा कृष्णः पांडवानां ॥४॥ अविज्ञातो दूतः परस्थानं न प्रविशेनिर्गच्छेद्वा ॥५॥ मत्स्वामिनमतिसंधातुकामः परो मां विलम्बयितुमिच्छतीत्यविज्ञातोपि दूतोऽपंस रेगुढपुरुषान् वावसर्पयेत् ॥ ६॥ परेणाशु सम्प्रेषितो दूतः कारणं विमृशेत् ॥ ७॥ कृत्योपग्रहोऽकृत्योत्थापनं सुतदायादावरुद्धोपजापः स्वमंडलप्रविष्टगूढपुरुषपरिज्ञानमन्तभूमिपालाटविकसम्बन्धः कोशदेशतंत्रमित्रावबोधः कन्यारत्नवाहनविनिश्रीवणं स्वाभीष्टपुरुषप्रयोगात् परप्रकृतिक्षोभकरणं च दूतकर्म ॥ ८ ॥ मंत्रिपुरोहितसेनापतिप्रतिबद्धाप्तजनोपचारविसम्माभ्यां शत्रोरिति कर्तव्यतामन्तःसारतां च विन्द्यात् ॥९॥ __ १ आसन्नेष्व० मु-पुस्तके । २ ममुमूर्षता मु-पु । ३ प्रतिभानवत्वं मु-पु । ४ इति प्रथमा दूतगुणाः मु-पु। ५-६ निःस्पृष्टार्थः मु-पु। ७ 'मत्' इति शब्दो मुद्रित-पुस्तके नास्ति । ८ नापसरेत् मु-पुस्तके । ९ नावसर्पयेत् मुद्रितपुस्तके । १. प्रेषणे मु-पुस्तके । ११ अस्मादग्रे कृत्य भेदनं मु-पु। १२ मन्तपाला० मु-पुस्तके । १३ सम्बन्धि. मु.। १४ मित्रावरोधः मु. । १५ वाहनतीक्ष्णपुरुषप्रयोगात् मु. १६ प्रतिबद्धपूजनोपचार. मु.। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy