SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पुरोहितसमुद्देशः । स किममिजातो मातरि यः पुरुषः शूरो वा पितरि ॥२१॥ टीका–स पुत्रः किमभिजातः कुलीनः स कुलीनो न भवति । यः किंविशिष्टः (?) शूरः उद्भटः । कस्यां ? मातरि । तथा पितुरुपरि वारान् ( ? ) तस्मात्पुत्रेण मातृपित्रोर्भक्तिः कार्या येन ज्ञायते कुलीनोऽयमिति । तथा च मनु: न पुत्रः पितरं द्वेष्टि मातरं न कथंचन । यस्तयो?षसंयुक्तस्तं विन्द्यादन्यरेतसं ॥ १॥ अथ पुत्रेण मातृपितृभ्यां कुलीनेन यत्कृत्यं तदाह-- अनंनुज्ञातो न कचिहजेत् ॥ २२ ॥ टीका--ताभ्यां मातृपितृभ्यामननुज्ञातोऽप्रेषितः सन् न क्वचिद् ब्रजेत् । तथा वशिष्ठः-- पितृमातृसमादेशमगृहीत्वा करोति यः । सुसूक्ष्माण्यपि कृत्यानि स कुलीनो भवेन्न हि ॥ १ ॥ तथा भूयोऽपि पुत्रेण यत्कर्तव्यं तदाहमार्गमचलं जलाशयं च नैकोऽवगाहयेत् ॥ २३ ॥ टीका-नो गच्छेत् । कोऽसौ ? पुत्रः । किंविशिष्टः ? एको मातृपितृविहीनः । कं न गच्छेत् ? मार्ग पन्थानं तथाचलं पर्वतं तथा जलाशयं वापीकूपादिकमिति । तथा च गुरु: वापीकूपादिकं यच्च मार्ग वा यदि वाचलं । नैकोवगाहयेत् पुत्रः पितृमातृविवर्जितः ॥१॥ अथ गुरोः शिष्येण यथा वर्तितव्यं तथाह १ श्लोकोऽयं मनुस्मृतौ तु नास्ति । टीकाकी स्वदौष्टयेन ग्रन्थकर्तृपराभवाभिप्रायेण बहवः श्लोकाः स्वयं विरचय्य तत्र तत्र स्थलेषु विनिवेशिताः, तेषां नाम च पूर्वेषां कृतं । २ गुरुणाननुज्ञातो मु-पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy