SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १६४ नीतिवाक्यामृते टीका-न भजेत् न सेवेत । किं तत् ? व्यासंगं अन्यकृत्यं तथा पारिप्लवं चांचल्यं तथान्यमनस्कतामन्यचित्ततां । कस्मिन् ? अध्ययनकाले पाठसमये । तस्मात् पठनसमये अन्यकृत्यं चापल्यं अन्यचित्ततां न कुर्यात् । तथा च गौतमः अन्यकार्य च चापल्यं तथा चैवान्यचित्ततां। प्रस्तावे पठनस्यात्र यः करोति जडो भवेत् ।।१।। अथ शिष्येण सहाध्यायिषु य कर्तव्यं तदाहसहाध्यायिषु बुद्धयतिशयेन नाभिभूयेतं ॥ १९ ॥ टीका-नाभिभूयेत न पराभवं कुर्यात् । केषु ? सहाध्यायिषु सतीर्थेषु । केन ? बुद्ध्यतिशयेन मतिबाहुल्येन यदि पठनात्तस्य बुद्धिरधिका भवति अन्यच्छात्राणां सकाशात्तदा तद्गताँश्छात्रान् न पराभवेत् न पराभवयुक्तान् कुर्यात् । तथा च गुरु: __ न सहाध्यायिनः कुर्यात्पराभक्समन्वितान् । स्वबुद्धयतिशयेनात्र यो विद्यां वाञ्छति प्रभोः॥१॥ अथ च्छात्रेण गुरोर्यत्कृत्यं तदाहप्रज्ञयातिशयानो न गुरुमवज्ञायेत ॥ २० ॥ टीका-नावज्ञायेत नाज्ञालोपेनायुक्तं गुरुं कुर्यात्। कोऽसौ ? छात्रः । कं ? गुरुं । किंविशिष्टंः ? प्रज्ञयातिशयानः गुरोः सकाशादधिकबुद्धिः संजातः सन्, यदि कथंचिद्गुरोः सकाशाच्छात्रस्य पठतोऽधिका बुद्धिर्भवति तदा तया गुरोर्नावलेपः कार्यः । तथा च भृगुः बुद्धयाधिकस्तु यछात्रो गुरुं पश्येदवज्ञया । स प्रेत्य नरकं याति वाच्यतामिह भूतले ॥१॥ अथ यो मातृपितृभ्यामुपरि पुत्रः शूरो भवति स यादृक् तदाह१ नाभिसूयेत् मु-मू-पुस्तके । २ अवल्हादयेत् मू. लज्ज येत् मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy